०६ अप्रतीकालम्बनाधिकरणम्

१५ अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥

स्थितमेतत् — कार्यविषया गतिः, न परविषयेति । इदमिदानीं सन्दिह्यते — किं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् , उत कांश्चिदेवेति । किं तावत्प्राप्तम् ? सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात् ; तथा हि ‘अनियमः सर्वासाम्’ (ब्र. सू. ३ । ३ । ३१) इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति । एवं प्राप्ते, प्रत्याह — अप्रतीकालम्बनानिति ; प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम् — इति बादरायण आचार्यो मन्यते ; न हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति, अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः । तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यः ; यो हि ब्रह्मक्रतुः, स ब्राह्ममैश्वर्यमासीदेत् — इति श्लिष्यते, ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः, न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति, प्रतीकप्रधानत्वादुपासनस्य । ननु, अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते ; यथा पञ्चाग्निविद्यायाम् — ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति — भवतु, यत्र एवम् आहत्यवाद उपलभ्यते ; तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः, न इतरेषाम् — इति गम्यते ॥ १५ ॥

१६ विशेषं च दर्शयति ॥

नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति — ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । १ । ५) ‘वाग्वाव नाम्नो भूयसी’ (छा. उ. ७ । २ । १) ‘यावद्वाचो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । २ । २) ‘मनो वाव वाचो भूयः’ (छा. उ. ७ । ३ । १) इत्यादिना । स च अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यते । ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति ॥ १६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः ॥