०५ कार्याधिकरणम्

०७ कार्यं बादरिरस्य गत्युपपत्तेः ॥

‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यते — किं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति । कुतः संशयः ? ब्रह्मशब्दप्रयोगात् , गतिश्रुतेश्च । तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते । कुतः ? अस्य गत्युपपत्तेः — अस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते, प्रदेशवत्त्वात् ; न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥

०८ विशेषितत्वाच्च ॥

‘ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते ; न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते ; कार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम् । लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी ; गौणी त्वन्यत्र ‘ब्रह्मैव लोक एष सम्राट्’ इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥

ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् — इत्यत्रोच्यते —

०९ सामीप्यात्तु तद्व्यपदेशः ॥

तुशब्द आशङ्काव्यावृत्त्यर्थः ; परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥

ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते ; न हि परस्माद्ब्रह्मणोऽन्यत्र क्वचिन्नित्यतां सम्भावयन्ति ; दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिम् — ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इति, ‘तेषामिह न पुनरावृत्तिरिति — ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६)) इति च ; अत्र ब्रूमः —

१० कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥

कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैव उत्पन्नसम्यग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इतीत्थं क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् ॥ १० ॥

११ स्मृतेश्च ॥

स्मृतिरप्येतमर्थमनुजानाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति । तस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥

कं पुनः पूर्वपक्षमाशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ‘कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्यादिनेति, स इदानीं सूत्रैरेवोपदर्श्यते —

१२ परं जैमिनिर्मुख्यत्वात् ॥

जैमिनिस्त्वाचार्यः ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते । कुतः ? मुख्यत्वात् । परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् , गौणमपरम् ; मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥

१३ दर्शनाच्च ॥

‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६)) इति च गतिपूर्वकममृतत्वं दर्शयति ; अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते, न कार्ये, विनाशित्वात्कार्यस्य — ‘अथ यत्रान्यत्पश्यति … तदल्पं … तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) इति वचनात् । परविषयैव च एषा गतिः कठवल्लीषु पठ्यते ; न हि तत्र विद्यान्तरप्रक्रमोऽस्ति — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥

१४ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥

अपि च ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः, ‘नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् ; ‘यशोऽहं भवामि ब्राह्मणानाम्’ (छा. उ. ८ । १४ । १) इति च सर्वात्मत्वेनोपक्रमणात् ; ‘न तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’ (श्वे. उ. ४ । १९) इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता — ‘तदपराजिता पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम्’ (छा. उ. ८ । ५ । ३) इत्यत्र । पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते । तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ — गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , न तु मुख्यत्वादयो गत्युपपत्त्यादीन् — इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः । न ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते । परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते — ‘विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इतिवत् । ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम् ‘सर्वकर्मा सर्वकामः’ इत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः ॥

केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि — इत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति ; तत् अनुपपन्नम् , गन्तव्यत्वानुपपत्तेर्ब्रह्मणः ; यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ‘आकाशवत्सर्वगतश्च नित्यः’ ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘आत्मैवेदँ सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इत्यादिश्रुतिनिर्धारितविशेषम् — तस्य गन्तव्यता न कदाचिदप्युपपद्यते ; न हि गतमेव गम्यते ; अन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोके । ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टा — यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् , तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथञ्चित् गन्तव्यता स्यादिति — न, प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणः ; ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् ; भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता । जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् , न, विशेषनिराकरणश्रुतीनामनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् , न, तासामेकत्वप्रतिपादनपरत्वात् ; मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति ॥

कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् , न पुनरितरशेषत्वमितरासामिति, उच्यते — विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् ; न हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरुषार्थसमाप्तिबुद्ध्युत्पत्तेः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘विद्वान्न बिभेति कुतश्चन । एतँ ह वाव न तपति । किमहँ साधु नाकरवम् । किमहं पापमकरवम्’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यः, तथैव च विदुषां तुष्ट्यनुभवादिदर्शनात् , विकारानृताभिसन्ध्यपवादाच्च — ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति ; अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यम् । नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति ; प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते ; तथा हि — ‘तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३) इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति ; ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति च ; एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः ; अतश्च गन्तव्यत्वानुपपत्तिः । ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) ‘ब्रह्मैव सन्ब्रह्माप्येति’ इति च परस्मिन्ब्रह्मणि गतिं निवारयति ; तद्व्याख्यातम् ‘स्पष्टो ह्येकेषाम्’ (ब्र. सू. ४ । २ । १३) इत्यत्र ॥

गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारः अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेः । यद्येवम् , ततः किं स्यात् ? उच्यते — यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते ; एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात् ; न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति ; व्यापित्वे गमनानुपपत्तिः ; मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः ; अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः ; प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिशास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः । विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , न, मुख्यैकत्वानुपपत्तेः । सर्वेषु च एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः ; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च ॥

यत्तु कैश्चिज्जल्प्यते — नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्ते — इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति — तदसत् , प्रमाणाभावात् । न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् — मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम् — यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति । न च एतत् तर्कयितुं शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते । तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते — इत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ ‘ततः शेषेण’ इत्यादिश्रुतिस्मृतिभ्यः । स्यादेतत् — नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति — तत् न, विरोधाभावात् ; सति हि विरोधे क्षेप्यक्षेपकभावो भवति ; न च जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात् ; दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् ; न तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात् । न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात् ; स्मरति हि आपस्तम्बः — ‘तद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३) इति । न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात् ; संशयितव्यं तु भवति ; तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात् । स्यादेतत् — कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, न तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति — तच्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथापि स्यात् — न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि ; अत एकाकिनी सा स्थितापि नापराध्यतीति — तच्च न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , न कथञ्चन मोक्षं प्रति आशा अस्ति । श्रुतिश्च — ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥

परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् — न, प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः ; शास्त्रं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषये — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना तदभावं दर्शयति । तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य वाधितत्वात् न कथञ्चन गतिरुपपादयितुं शक्या । किंविषयाः पुनर्गतिश्रुतय इति, उच्यते — सगुणविद्याविषया भविष्यन्ति । तथा हि — क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्पर्यङ्कविद्याम् , क्वचिद्वैश्वानरविद्याम् ; यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते — यथा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इति च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः । न क्वचित्परब्रह्मविषया गतिः श्राव्यते । तथा गतिप्रतिषेधः श्रावितः — ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति । ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिषु तु, सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते — ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ; तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः ; न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते ; तस्मादपरविषया गतिः । तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते । किं द्वे ब्रह्मणी परमपरं चेति ? बाढं द्वे — ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः’ (प्र. उ. ५ । २) इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किमपरमिति, उच्यते — यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधात् अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम् ; तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिशब्दैः, तदपरम् । ननु एवमद्वितीयश्रुतिरुपरुध्येत — न, अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात् । तस्य च अपरब्रह्मोपासनस्य तत्सन्निधौ श्रूयमाणम् ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तितत्वादविद्यायाः ; तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम् । सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव घटादिगमने, बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म ‘तद्गुणसारत्वात्’ (ब्र. सू. २ । ३ । २९) इत्यत्र । तस्मात् ‘कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्येष एव स्थितः पक्षः ; ‘परं जैमिनिः’ (ब्र. सू. ४ । ३ । १२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ १४ ॥