०४ आतिवाहिकाधिकरणम्

०४ आतिवाहिकास्तल्लिङ्गात् ॥

तेष्वेव अर्चिरादिषु संशयः — किमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् , तत्स्वरूपत्वादुपदेशस्य ; यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते — गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीति — एवमिहापि ‘अर्चिषोऽहरह्न आपूर्यमाणपक्षम्’ इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् ; तथाहि लोकशब्देन अग्न्यादीननुबध्नाति — ‘अग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यादि ; लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते — ‘मनुष्यलोकः पितृलोको देवलोकः’ (बृ. उ. १ । ५ । १६) इति च ; तथा च ब्राह्मणम् — ‘अहोरात्रेषु ते लोकेषु सज्जन्ते’ इत्यादि । तस्मान्नातिवाहिका अर्चिरादयः । अचेतनत्वादप्येषामातिवाहिकत्वानुपपत्तिः ; चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः — आतिवाहिका एवैते भवितुमर्हन्ति । कुतः ? तल्लिङ्गात् ; तथा हि — ‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सिद्धवद्गमयितृत्वं दर्शयति । तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् , न, प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य ; यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः, ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् — अमानव इति ॥ ४ ॥

ननु तल्लिङ्गमात्रमगमकम् , न्यायाभावात् ; नैष दोषः —

०५ उभयव्यामोहात्तत्सिद्धेः ॥

ये तावदर्चिरादिमार्गगाः ते देहवियोगात् सम्पिण्डितकरणग्रामा इति अस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम् — इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ; लोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः ; न हि रात्रौ प्रेतस्य अहःस्वरूपाभिसम्भव उपपद्यते । न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् ; ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता च एषाम् अर्चिराद्यभिमानादुपपद्यते ; ‘अर्चिषोऽहः’ (छा. उ. ४ । १५ । ५) इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि न विरुध्यते — अर्चिषा हेतुना अहरभिसम्भवति, अह्ना हेतुना आपूर्यमाणपक्षमिति ; तथा च लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यते — गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि च उपक्रमे ‘तेऽर्चिरभिसम्भवन्ति’ (बृ. उ. ६ । २ । १५) इति सम्बन्धमात्रमुक्तम् , न सम्बन्धविशेषः कश्चित् ; उपसंहारे तु ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः ; तेन स एवोपक्रमेऽपीति निर्धार्यते । सम्पिण्डितकरणत्वादेव च गन्तॄणां न तत्र भोगसम्भवः ; लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुना — इति योजयितव्यम् ॥ ५ ॥

कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्सम्भवः ? विद्युतो ह्यधि वरुणादय उपक्षिप्ताः, विद्युतस्त्वनन्तरम् आ ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् — इत्यत उत्तरं पठति —

०६ वैद्युतेनैव ततस्तच्छ्रुतेः ॥

ततो विद्युदभिसम्भवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् , ‘तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकं गमयति’ इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम् । तस्मात्साधूक्तम् — आतिवाहिका देवतात्मानोऽर्चिरादय इति ॥ ६ ॥