०२ वायुमब्दादविशेषविशेषाभ्याम् ॥
केन पुनः सन्निवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावः — इति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति । ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्’ (कौ. उ. १ । ३) इति कौषीतकिनां देवयानः पन्थाः पठ्यते ; तत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्यः ; वायुस्तु अर्चिरादौ वर्त्मनि कतमस्मिन्स्थाने निवेशयितव्य इति, उच्यते — ‘तेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान् ।’ (छा. उ. ५ । १० । १) ‘मासेभ्यः संवत्सरं संवत्सरादादित्यम्’ (छा. उ. ५ । १० । २) इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसम्भवन्ति ; कस्मात् ? अविशेषविशेषाभ्याम् । तथा हि ‘स वायुलोकम्’ (कौ. उ. १ । ३) इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते — ‘यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति’ (बृ. उ. ५ । १० । १) इति ; एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः । कस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते ? नैषोऽस्ति विशेष इति वदामः ; ननूदाहृता श्रुतिः — ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्’ (कौ. उ. १ । ३) इति ; उच्यते — केवलोऽत्र पाठः पौर्वापर्येणावस्थितः, नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति ; पदार्थोपदर्शनमात्रं ह्यत्र क्रियते — एतं एतं च आगच्छतीति ; इतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति — अवगम्यते क्रमः । तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति । वाजसनेयिनस्तु ‘मासेभ्यो देवलोकं देवलोकादादित्यम्’ (बृ. उ. ६ । २ । १५) इति समामनन्ति ; तत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः ; ‘वायुमब्दात्’ इति तु च्छन्दोगश्रुत्यपेक्षयोक्तम् । छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते, परत्र संवत्सरः ; तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौ ; तत्रापि माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥