०१ अर्चिराद्यधिकरणम्

०१ अर्चिरादिना तत्प्रथितेः ॥

अर्चिरादिनेति । सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे । कुतः ? तत्प्रथितेः ; प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् ; तथा हि पञ्चाग्निविद्याप्रकरणे — ‘ये चामी अरण्ये श्रद्धाँ सत्यमुपासते’ (बृ. उ. ६ । २ । १५) इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यते । स्यादेतत् — यासु विद्यासु न काचिद्गतिरुच्यते, तासु इयमर्चिरादिका उपतिष्ठताम् ; यासु तु अन्या श्राव्यते, तासु किमित्यर्चिराद्याश्रयणमिति, अत्रोच्यते — भवेदेतदेवम् , यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः ; एकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञानात् इतरेतरविशेषणविशेष्यभावोपपत्तेः ; प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिविशेषणानामप्युपसंहारः ; विद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव ; तथा हि — ‘ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) ‘तस्मिन्वसन्ति शाश्वतीः समाः’ (बृ. उ. ५ । १० । १) ‘सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते’ (कौ. उ. १ । ७) ‘तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति’ (छा. उ. ८ । ४ । ३) इति च तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते । यत्तु ‘एतैरेव’ इत्यवधारणम् अर्चिराद्याश्रयणे न स्यादिति, नैष दोषः, रश्मिप्राप्तिपरत्वादस्य ; न हि एक एव शब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च व्यावर्तयितुम् ; तस्मात् रश्मिसम्बन्ध एवायमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अर्चिराद्यपेक्षायामपि गन्तव्यान्तरापेक्षया शैघ्र्यार्थत्वात्त् नोपरुध्यते — यथा निमेषमात्रेणात्रागम्यत इति । अपि च ‘अथैतयोः पथोर्न कतरेणचन’ (छा. उ. ५ । १० । ८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति ; भूयांस्यर्चिरादिसृतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्र ; भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम् ॥ १ ॥