११ दक्षिणायनाधिकरणम्

२० अतश्चायनेऽपि दक्षिणे ॥

अत एव च उदीक्षानुपपत्तेः, अपाक्षिकफलत्वाच्च विद्यायाः, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राशस्त्यप्रसिद्धेः, भीष्मस्य च प्रतीक्षादर्शनात् , ‘आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान्’ (छा. उ. ४ । १५ । ५) इति च श्रुतेः, अपेक्षितव्यमुत्तरायणम् — इतीमामाशङ्काम् अनेन सूत्रेणापनुदति ; प्राशस्त्यप्रसिद्धिः अविद्वद्विषया ; भीष्मस्य तूत्तरायणप्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च । श्रुतेस्तु अर्थं वक्ष्यति ‘आतिवाहिकास्तल्लिङ्गात्’ (ब्र. सू. ४ । ३ । ४) इति ॥ २० ॥

ननु च ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ’ (भ. गी. ८ । २३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियमितः ; कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात् — इत्यत्रोच्यते —

२१ योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥

योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते ; स्मार्ते चैते योगसांख्ये, न श्रौते ; अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः । ननु ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।’ (भ. गी. ८ । २४) ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ (भ. गी. ८ । २५) इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति, उच्यते — ‘तं कालं वक्ष्यामि’ (भ. गी. ८ । २३) इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तः । यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोध इति ॥ २१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य द्वितीयः पादः ॥