०९ तदोकोऽधिकरणम्

१७ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥

समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता ; सम्प्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति । समाना च आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिः — इत्युक्तम् ; तम् इदानीं सृत्युपक्रमं दर्शयति । तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः, ओकः आयतनं हृदयम् — ‘स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ इति श्रुतेः, तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्तिः श्रूयते — ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति । सा किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो विशेषनियमः — इति विचिकित्सायाम् , श्रुत्यविशेषादनियमप्राप्तौ, आचष्टे — समानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च, मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थानान्तरेभ्यस्तु इतरे । कुतः ? विद्यासामर्थ्यात् ; यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् , नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिकैव विद्या स्यात् । तच्छेषगत्यनुस्मृतियोगाच्च — विद्याशेषभूता च मूर्धन्यनाडीसम्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ; तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतराभिरितरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्ति — ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इति ॥ १७ ॥