०८ अविभागाधिकरणम्

१६ अविभागो वचनात् ॥

स पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति, आहोस्विन्निरवशेष इति । तत्र प्रलयसामान्यात् शक्त्यवशेषताप्रसक्तौ ब्रवीति — अविभागापत्तिरेवेति । कुतः ? वचनात् ; तथा हि कलाप्रलयमुक्त्वा वक्ति — ‘भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति’ (प्र. उ. ६ । ५) इति । अविद्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः । तस्मादविभाग एवेति ॥ १६ ॥