०७ वागादिलयाधिकरणम्

१५ तानि परे तथा ह्याह ॥

तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात् ? तथा हि आह श्रुतिः — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र. उ. ६ । ५) इति । ननु ‘गताः कलाः पञ्चदश प्रतिष्ठाः’ (मु. उ. ३ । २ । ७) इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म — न ; सा खलु व्यवहारापेक्षा — पार्थिवाद्याः कलाः पृथिव्यादीरेव स्वप्रकृतीरपियन्तीति ; इतरा तु विद्वत्प्रतिपत्त्यपेक्षा — कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति ; तस्माददोषः ॥ १५ ॥