१२ प्रतिषेधादिति चेन्न शारीरात् ॥
‘अमृतत्वं चानुपोष्य’ इत्यतो विशेषणात् आत्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः ; तत्रापि केनचित्कारणेन उत्क्रान्तिमाशङ्क्य प्रतिषेधति — ‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति । अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत् , नेत्युच्यते, यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम् , न शरीरात् । कथमवगम्यते ? ‘न तस्मात्प्राणा उत्क्रामन्ति’ इति शाखान्तरे पञ्चमीप्रयोगात् ; सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते ; ‘तस्मात्’ इति च प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही सम्बध्यते, न देहः ; न तस्मादुच्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति, सहैव तेन भवन्ति — इत्यर्थः । सप्राणस्य च प्रवसतो भवत्युत्क्रान्तिर्देहादिति ॥ १२ ॥
एवं प्राप्ते, प्रत्युच्यते —
१३ स्पष्टो ह्येकेषाम् ॥
नैतदस्ति — यदुक्तम् , परब्रह्मविदोऽपि देहात् अस्त्युत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति ; यतो देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते । तथा हि — आर्तभागप्रश्ने ‘यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति’ (बृ. उ. ३ । २ । ११) इत्यत्र, ‘नेति होवाच याज्ञवल्क्यः’ (बृ. उ. ३ । २ । ११) इत्यनुत्क्रान्तिपक्षं परिगृह्य, न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृतः — इत्यस्यामाशङ्कायाम् ‘अत्रैव समवनीयन्ते’ इति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये ‘स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते’ (बृ. उ. ३ । २ । ११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्वयनादीनि समामनन्ति ; देहस्य च एतानि स्युः न देहिनः ; तत्सामान्यात् , ‘न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते’ इत्यत्रापि — अभेदोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधः — यद्यपि प्राधान्यं देहिनः — इति व्याख्येयम् , येषां पञ्चमीपाठः । येषां तु षष्ठीपाठः, तेषां विद्वत्सम्बन्धिनी उत्क्रान्तिः प्रतिषिध्यत इति, प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य, देहापादानैव सा प्रतिषिद्धा भवति , देहादुत्क्रान्तिः प्राप्ता, न देहिनः ; अपि च ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तँ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्येवमविद्वद्विषये सप्रपञ्चमुत्क्रमणं संसारगमनं च दर्शयित्वा, ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति उपसंहृत्य अविद्वत्कथाम् , ‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति व्यपदिश्य विद्वांसम् — यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेत् , असमञ्जस एव व्यपदेशः स्यात् ; तस्मात् अविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योः विद्वद्विषये प्रतिषेधः — इत्येवमेव व्याख्येयम् , व्यपदेशार्थवत्त्वाय । न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपपद्यते, निमित्ताभावात् । ‘अत्र ब्रह्म समश्नुते’ इति च एवंजातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥ १३ ॥
१४ स्मर्यते च ॥
स्मर्यतेऽपि च महाभारते गत्युत्क्रान्त्योरभावः — ‘सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः’ (म. भा. १२ । २३९ । २३) इति । ननु गतिरपि ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते — ‘शुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्राव’ इति — न ; सशरीरस्यैव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम् , सर्वभूतदृश्यत्वाद्युपन्यासात् ; न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः ; तथा च तत्रैवोपसंहृतम् — ‘शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः ।’ (म. भा. १२ । ३३३ । १९) ‘दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्’ (म. भा. १२ । ३३३ । २०) इति । तस्मादभावः परब्रह्मविदो गत्युत्क्रान्त्योः । गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्यास्यामः ॥ १४ ॥