०५ संसारव्यपदेशाधिकरणम्

०८ तदाऽपीतेः संसारव्यपदेशात् ॥

‘तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इत्यत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति ; कीदृशी पुनरियं सम्पत्तिः स्यादिति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् , तत्प्रकृतित्वोपपत्तेः ; सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् ; तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति । एवं प्राप्ते, ब्रूमः — तत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीतेः आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठते — ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इत्यादिसंसारव्यपदेशात् ; अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत, तत्र विधिशास्त्रमनर्थकं स्यात् , विद्याशास्त्रं च ; मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति ; तस्मात् तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवत् बीजभावावशेषैव एषा सत्सम्पत्तिरिति ॥ ८ ॥

०९ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥

तच्च इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात्सञ्चारोपपत्तिः ; स्वच्छत्वाच्च अप्रतीघातोपपत्तिः ; अत एव च देहान्निर्गच्छन् पार्श्वस्थैर्नोपलभ्यते ॥ ९ ॥

१० नोपमर्देनातः ॥

अत एव च सूक्ष्मत्वात् नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥ १० ॥

११ अस्यैव चोपपत्तेरेष ऊष्मा ॥

अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमेतस्मिञ्च्छरीरे संस्पर्शेनोष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु , न ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यते — इत्यत उपपद्यते

प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्मेति । तथा च श्रुतिः — ‘उष्ण एव जीविष्यञ्शीतो मरिष्यन्’ इति ॥ ११ ॥