०७ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥
सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशेषवती — इति विशयानानां विशेषवतीति तावत्प्राप्तम् । भूताश्रयविशिष्टा ह्येषा ; पुनर्भवाय च भूतान्याश्रीयन्ते ; न च विदुषः पुनर्भवः सम्भवति ; अमृतत्वं हि विद्वानश्नुते — इति स्थितिः ; तस्मादविदुष एव एषा उत्क्रान्तिः । ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् — न, स्वापादिवत् यथाप्राप्तानुकीर्तनात् ; यथा हि ‘यत्रैतत्पुरुषः स्वपिति नाम’ (छा. उ. ६ । ८ । १), ‘अशिशिषति नाम’ (छा. उ. ६ । ८ । ३), ‘पिपासति नाम’ (छा. उ. ६ । ८ । ५) इति च सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तु विदुषो विशेषवन्तो विधित्स्यन्ते ; एवम् इयमपि उत्क्रान्तिः महाजनगतैवानुकीर्त्यते, यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः सम्पद्यते स आत्मा तत्त्वमसि — इत्येतत्प्रतिपादयितुम् । प्रतिषिद्धा च एषा विदुषः — ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति । तस्मात् अविदुष एवैषेति ॥
एवं प्राप्ते, ब्रूमः — समाना चैषा उत्क्रान्तिः ‘वाङ्मनसि’ इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अविशेषश्रवणात् ; अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवन् संसरति, विद्वांस्तु ज्ञानप्रकाशितं मोक्षनाडीद्वारमाश्रयते — तदेतत् ‘आसृत्युपक्रमात्’ इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम् , न च तद्देशान्तरायत्तम् , तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति — अत्रोच्यते — अनुपोष्य च, इदम् , अदग्ध्वा अत्यन्तमविद्यादीन्क्लेशान् , अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते , सम्भवति तत्र सृत्युपक्रमः भूताश्रयत्वं च — न हि निराश्रयाणां प्राणानां गतिरुपपद्यते ; तस्माददोषः ॥ ७ ॥