०३ अध्यक्षाधिकरणम्

०४ सोऽध्यक्षे तदुपगमादिभ्यः ॥

स्थितमेतत् — यस्य यतो नोत्पत्तिः, तस्य तस्मिन्वृत्तिप्रलयः, न स्वरूपप्रलय इति ; इदमिदानीम् ‘प्राणस्तेजसि’ इत्यत्र चिन्त्यते — किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः, किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति । तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् , अश्रुतकल्पनाया अन्याय्यत्वात् — इत्येवं प्राप्ते प्रतिपद्यते — सोऽध्यक्ष इति । स प्रकृतः प्राणः, अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते ; तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः । कुतः ? तदुपगमादिभ्यः — ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति’ इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति ; विशेषेण च ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति, तदनुवृत्तितां च इतरेषाम् ‘प्राणमनूत्क्रामन्तँ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति ; ‘सविज्ञानो भवति’ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति । ननु ‘प्राणस्तेजसि’ इति श्रूयते ; कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ? नैष दोषः, अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य, श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीयत्वात् ॥ ४ ॥

कथं तर्हि ‘प्राणस्तेजसि’ इति श्रुतिरित्यत आह —

०५ भूतेषु तच्छ्रुतेः ॥

स प्राणसम्पृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् , ‘प्राणस्तेजसि’ इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति, न प्राणसम्पृक्तस्याध्यक्षस्य — नैष दोषः, सोऽध्यक्षे — इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ; योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति, सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम् ; तस्मात् ‘प्राणस्तेजसि’ इति प्राणसम्पृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम् ॥ ५ ॥

कथं तेजःसहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसि’ इति ? अत आह —

०६ नैकस्मिन्दर्शयतो हि ॥

न एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोऽवतिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात् । दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने ‘आपः पुरुषवचसः’ (छा. उ. ५ । ३ । ३) इति ; तद्व्याख्यातम् ‘त्र्यात्मकत्वात्तु भूयस्त्वात्’ (ब्र. सू. ३ । १ । २) इत्यत्र । श्रुतिस्मृती च एतमर्थं दर्शयतः ; श्रुतिः — ‘पृथ्वीमय आपोमयो वायुमय आकाशमयस्तेजोमयः’ इत्याद्या ; स्मृतिरपि — ‘अण्व्यो मात्राऽविनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः’ (म. स्मृ. १ । २७) इत्याद्या । ननु च उपसंहृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् ‘क्वायं तदा पुरुषो भवति’ (बृ. उ. ३ । २ । १३) इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति — ‘तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशँसतुः कर्म हैव तत्प्रशशँसतुः’ (बृ. उ. ३ । २ । १३) इति ; अत्रोच्यते — तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता ; इह पुनः भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम् ; प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् , न त्वाश्रयान्तरं निवारितम् ; तस्मादविरोधः ॥ ६ ॥