०३ तन्मनः प्राण उत्तरात् ॥
समधिगतमेतत् — ‘वाङ्मनसि सम्पद्यते’ (छा. उ. ६ । ८ । ६) इत्यत्र वृत्तिसम्पत्तिविवक्षेति ; अथ यदुत्तरं वाक्यम् ‘मनः प्राणे’ (छा. उ. ६ । ८ । ६) इति, किमत्रापि वृत्तिसम्पत्तिरेव विवक्ष्यते, उत वृत्तिमत्सम्पत्तिः — इति विचिकित्सायाम् , वृत्तिमत्सम्पत्तिरेव अत्र इति प्राप्तम् , श्रुत्यनुग्रहात् ; तत्प्रकृतित्वोपपत्तेश्च ; तथा हि — ‘अन्नमयँ हि सोम्य मन आपोमयः प्राणः’ (छा. उ. ६ । ५ । ४) इत्यन्नयोनि मन आमनन्ति, अब्योनिं च प्राणम् ; ‘आपश्चान्नमसृजन्त’ — इति श्रुतिः । अतश्च यन्मनः प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयते ; अन्नं हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादिति । एवं प्राप्ते, ब्रूमः — तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम् ; तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् , मनोवृत्तीनामुपशमो दृश्यते ; न च मनसः स्वरूपाप्ययः प्राणे सम्भवति ; अतत्प्रकृतित्वात् । ननु दर्शितं मनसः प्राणप्रकृतित्वम् — नैतत्सारम् ; न हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति ; एवमपि हि अन्ने मनः सम्पद्येत, अप्सु चान्नम् , अप्स्वेव च प्राणः ; न ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किञ्चन प्रमाणमस्ति ; तस्मात् न मनसः प्राणे स्वरूपाप्ययः । वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम् ॥ ३ ॥