१९ भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥
अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः । इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति ‘ब्रह्मैव सन्ब्रह्माप्येति’ इति च एवमादिश्रुतिभ्यः । ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तम् , एवं पश्चादप्यनुवर्तेत — न, निमित्ताभवात् । उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् , न च तादृशमत्र किञ्चिदस्ति । ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते — न, तस्य दग्धबीजत्वात् ; मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभेत ; तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम् — इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति ॥ १९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥