१३ विद्याज्ञानसाधनत्वाधिकरणम्

१८ यदेव विद्ययेति हि ॥

समधिगतमेतदनन्तराधिकरणे — नित्यमग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्माधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवतीति ; तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं चास्ति — ‘य एवं विद्वान्यजति’ ‘य एवं विद्वाञ्जुहोति’ ‘य एवं विद्वाञ्शंसति’ ‘य एवं विद्वान्गायति’ ‘तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्’ (छा. उ. ४ । १७ । १०) ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ (छा. उ. १ । १ । १०) इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति, केवलमप्यस्ति । तत्रेदं विचार्यते — किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् ; उत विद्यासंयुक्तं केवलं च अविशेषेणेति । कुतः संशयः ? ‘तमेतमात्मानं यज्ञेन विविदिषन्ति’ इति यज्ञादीनामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् , विद्यासंयुक्तस्य च अग्निहोत्रादेर्विशिष्टत्वावगमात् । किं तावत्प्राप्तम् ? विद्यासंयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते, न विद्याहीनम् , विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविहीनात् — ‘यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्’ इत्यादिश्रुतिभ्यः, ‘बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि’ (भ. गी. २ । ३९) ‘दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय’ (भ. गी. २ । ४९) इत्यादिस्मृतिभ्यश्च इत्येवं प्राप्ते प्रतिपाद्यते —

यदेव विद्ययेति हि । सत्यमेतत् — विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्निहोत्राद्विशिष्टम् , विद्वानिव ब्राह्मणो विद्याविहीनाद्ब्राह्मणात् ; तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् । कस्मात् ? ‘तमेतमात्मानं यज्ञेन विविदिषन्ति’ इत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात् । ननु विद्यासंयुक्तस्य अग्निहोत्रादेर्विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्निहोत्रादि आत्मविद्याहेतुत्वेनानपेक्ष्यमेवेति युक्तम् — नैतदेवम् ; विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति, न तथा विद्याविहीनस्य — इति युक्तं कल्पयितुम् ; न तु ‘यज्ञेन विविदिषन्ति’ इत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् ; तथा हि श्रुतिः — ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधानेन स्वकार्यं प्रति कञ्चिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति ; कर्मणश्च वीर्यवत्त्वं तत् , यत्स्वप्रयोजनसाधनसहत्वम् । तस्माद्विद्यासंयुक्तं नित्यमग्निहोत्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञानोत्पत्तेः कृतं यत् , तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम् ॥ १८ ॥