१६ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥
पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टः ; सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्ति — अग्निहोत्रादि त्विति । तुशब्द आशङ्कामपनुदति ; यन्नित्यं कर्म वैदिकमग्निहोत्रादि, तत् तत्कार्यायैव भवति ; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः । कुतः ? ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ (बृ. उ. ४ । ४ । २२) इत्यादिदर्शनात् । ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिः — नैष दोषः, ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् , तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः । ननु अनारभ्यो मोक्षः, कथमस्य कर्मकार्यत्वमुच्यते ? नैष दोषः, आरादुपकारकत्वात्कर्मणः ; ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते ; अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् । न हि ब्रह्मविद आगाम्यग्निहोत्रादि सम्भवति, अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः सम्भवति आगाम्यपि अग्निहोत्रादि । तस्यापि निरभिसन्धिनः कार्यान्तराभावाद्विद्यासङ्गत्युपपत्तिः ॥ १६ ॥
किंविषयं पुनरिदम् अश्लेषविनाशवचनम् , किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ? अत उत्तरं पठति —
१७ अतोऽन्यापि ह्येकेषामुभयोः ॥
अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या, या फलमभिसन्धाय क्रियते, तस्या एष विनियोग उक्तः एकेषां शाखिनाम् — ‘सुहृदः साधुकृत्यामुपयन्ति’ इति । तस्या एव च इदम् अघवदश्लेषविनाशनिरूपणम् — इतरस्याप्येवमसंश्लेष इति । तथाजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे सम्प्रतिपत्तिः उभयोरपि जैमिनिबादरायणयोराचार्ययोः ॥ १७ ॥