१३ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥
गतस्तृतीयशेषः ; अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, न क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः ; फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता ; यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कदर्थिता स्यात् ; स्मरन्ति च — ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति — नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता ; न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् — नेत्युच्यते ; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः —
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः — उत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् ; तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशति — ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति ; तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति — ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवँ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति ; अयमपरः कर्मक्षयव्यपदेशो भवति — ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति । यदुक्तम् — अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः ; न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे ; विद्यत एव सा ; सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः ; शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते, न प्रतिबन्धाप्रतिबन्धयोरपि । ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् — न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति ; इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, य उ चैनमेवं वेद’ इत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम् — नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेतदुक्तम् — न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति, अत्र ब्रूमः — सगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ति — इत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते ; निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव, तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याह — विनाश इति । पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्काले — इति ब्रह्मविदवगच्छति ; एवमेव च मोक्ष उपपद्यते ; अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति ; अनित्यत्वप्रसङ्गात् , परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥