०८ आप्रायणाधिकरणम्

१२ आ प्रायणात्तत्रापि हि दृष्टम् ॥

आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे ; तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि, तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिपरिमाणम् ; न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् , अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनः अभ्युदयफलानि, तेष्वेषा चिन्ता — किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् , उत यावज्जीवमावर्तयेदिति । किं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् , आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः — आ प्रायणादेव आवर्तयेत्प्रत्ययम् , अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः ; कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘यच्चित्तस्तेनैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति’ इति चैवमादिश्रुतिभ्यः ; तृणजलूकानिदर्शनाच्च ; प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन् । तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः, तेषु आ प्रायणात् आवृत्तिः । तथा च श्रुतिः — ‘स यावत्क्रतुरयमस्माल्लोकात्प्रैति’ इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति । स्मृतिरपि — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति, ‘प्रयाणकाले मनसाचलेन’ (भ. गी. ८ । १०) इति च । ‘सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येत’ इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥