११ यत्रैकाग्रता तत्राविशेषात् ॥
दिग्देशकालेषु संशयः — किमस्ति कश्चिन्नियमः, नास्ति वेति । प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् , स्यादिहापि कश्चिन्नियम इति यस्य मतिः, तं प्रत्याह — दिग्देशकालेषु अर्थलक्षण एव नियमः ; यत्रैव अस्य दिशि देशे काले वा मनसः सौकर्येणैकाग्रता भवति, तत्रैवोपासीत, प्राचीदिक्पूर्वाह्णप्राचीनप्रवणादिवत् विशेषाश्रवणात् , एकाग्रताया इष्टायाः सर्वत्राविशेषात् । ननु विशेषमपि केचिदामनन्ति — ‘समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्’ (श्वे. उ. २ । १०) इति यथेति — उच्यते ; सत्यमस्ति एवंजातीयको नियमः ; सति त्वेतस्मिन् , तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । ‘मनोनुकूले’ इति चैषा श्रुतिः यत्रैकाग्रता तत्रैव — इत्येतदेव दर्शयति ॥ ११ ॥