०७ आसीनः सम्भवात् ॥
कर्माङ्गसम्बद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता ; नापि सम्यग्दर्शने, वस्तुतन्त्रत्वाद्विज्ञानस्य ; इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयति । तत्र मानसत्वादुपासनस्य अनियमः शरीरस्थितेरित्येवं प्राप्ते, ब्रवीति — आसीन एवोपासीतेति । कुतः ? सम्भवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणम् ; न च तत् गच्छतो धावतो वा सम्भवति, गत्यादीनां चित्तविक्षेपकरत्वात् ; तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति ; शयानस्यापि अकस्मादेव निद्रया अभिभूयते ; आसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम् ॥ ७ ॥
०८ ध्यानाच्च ॥
अपि च ध्यायत्यर्थ एषः, यत्समानप्रत्ययप्रवाहकरणम् ; ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते — ध्यायति बकः, ध्यायति प्रोषितबन्धुरिति । आसीनश्च अनायासो भवति ; तस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥
०९ अचलत्वं चापेक्ष्य ॥
अपि च ‘ध्यायतीव पृथिवी’ (छा. उ. ७ । ६ । १) इत्यत्र पृथिव्यादिषु अचलत्वमेवापेक्ष्य ध्यायतिवादो भवति ; तच्च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ ९ ॥
१० स्मरन्ति च ॥
स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेन आसनम् — ‘शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः’ (भ. गी. ६ । ११) इत्यादिना । अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥ १० ॥