०६ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥
‘य एवासौ तपति तमुद्गीथमुपासीत’ (छा. उ. १ । ३ । १) ‘लोकेषु पञ्चविधँ सामोपासीत’ (छा. उ. २ । २ । १) ‘वाचि सप्तविधँ सामोपासीत’ (छा. उ. २ । ८ । १) ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयः — किमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावात् — इति प्राप्तम् ; न हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते ; ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् ; न तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किञ्चिदुत्कर्षविशेषावधारणे कारणमस्ति । अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् ? कर्मात्मकत्वादुद्गीथादीनाम् , कर्मणश्च फलप्राप्तिप्रसिद्धेः ; उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्यत्र ‘तदेतदेतस्यामृच्यध्यूढं साम’ (छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम् ; तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, न ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम् ; क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, न राजनि क्षत्तृशब्दः । अपि च ‘लोकेषु पञ्चविधँ सामोपासीत’ (छा. उ. २ । २ । १) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयते ; ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इति च एतदेव दर्शयति । प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम् — ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु ; प्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयः — ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिश्रुतिषु । अतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप इत्येवं प्राप्ते ब्रूमः —
आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् । कुतः ? उपपत्तेः ; उपपद्यते हि एवम् अपूर्वसन्निकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेष्वेवम् ; स्वतन्त्रफलेषु तु कथम् — ‘य एतदेवं विद्वाल्ँलोकेषु पञ्चविधं सामोपास्ते’ (छा. उ. २ । २ । ३) इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसन्निकर्षेणैव फलकल्पना युक्ता, गोदोहनादिनियमवत् । फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः ; आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु । अपि च ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति च उद्गीथमेव उपास्यत्वेनोपक्रम्य, आदित्यादिमतीर्विदधाति । यत्तूक्तम् — उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम् , स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः । आदित्यादिभावेनापि च दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात् । ‘तदेतदेतस्यामृच्यध्यूढँ साम’ (छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः ; लक्षणा च यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसम्बन्धेन प्रवर्तते ; तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा, तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् , पृथिव्यग्न्योश्च सन्निधानात् , तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसम्बन्धादिति निश्चीयते ; क्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् न निवारयितुं पार्यते । ‘इयमेवर्क्’ (छा. उ. १ । ६ । १) इति च यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति ; पृथिव्या हि ऋक्त्वेऽवधार्यमाणे — इयमृगेवेत्यक्षरन्यासः स्यात् । ‘य एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इति च अङ्गाश्रयमेव विज्ञानमुपसंहरति, न पृथिव्याद्याश्रयम् । तथा ‘लोकेषु पञ्चविधँ सामोपासीत’ (छा. उ. २ । २ । १) इति यद्यपि सप्तमीनिर्दिष्टा लोकाः, तथापि साम्न्येव ते अध्यस्येरन् , द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात् ; सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति, अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युः । एतेन ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इत्यादि व्याख्यातम् । यत्रापि तुल्यो द्वितीयानिर्देशः ‘अथ खल्वमुमादित्यँ सप्तविधँ सामोपासीत’ (छा. उ. २ । ९ । १) इति, तत्रापि — ‘समस्तस्य खलु साम्न उपासनँ साधु’ (छा. उ. २ । १ । १) ‘इति तु पञ्चविधस्य’ (छा. उ. २ । ७ । २) ‘अथ सप्तविधस्य’ (छा. उ. २ । ८ । १) इति च साम्न एव उपास्यत्वोपक्रमात् — तस्मिन्नेव आदित्याद्यध्यासः । एतस्मादेव च साम्न उपास्यत्वावगमात् ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः । तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥