०३ प्रतीकाधिकरणम्

०४ न प्रतीके न हि सः ॥

‘मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति’ (छा. उ. ३ । १८ । १) तथा ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) ‘स यो नाम ब्रह्मेत्युपास्ते’ (छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयः — किं तेष्वपि आत्मग्रहः कर्तव्यः, न वेति । किं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम् । कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् , प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः — न प्रतीकेष्वात्ममतिं बध्नीयात् ; न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् । यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् , प्रतीकाभावप्रसङ्गात् ; विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनिराकरणात् ; कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशः ; तदनिराकरणेन च उपासनविधानम् । अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते ; न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति ; सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४ ॥