०२ आत्मत्वोपासनाधिकरणम्

०३ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥

यः शास्त्रोक्तविशेषणः परमात्मा, स किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इति — एतद्विचारयति । कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति, उच्यते — अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे ; इतरथा तु गौणोऽयमभ्युपगन्तव्यः — इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्यः ; न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन ; अपहतपाप्मत्वादिगुणश्च परमेश्वरः, तद्विपरीतगुणस्तु शारीरः ; ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः ; ततः शास्त्रानर्थक्यम् ; संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिविरोधश्च ।

अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् —
प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् — काममेवं भवतु ; न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥

एवं प्राप्ते, ब्रूमः — आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवते’ इति ; तथा अन्येऽपि ‘अहं ब्रह्मास्मि’ इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि — ‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) ‘तत्सत्यँ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादीनि । यदुक्तम् — प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति, तदयुक्तम् , गौणत्वप्रसङ्गात् , वाक्यवैरूप्याच्च — यत्र हि प्रतीकदृष्टिरभिप्रेयते, सकृदेव तत्र वचनं भवति — यथा ‘मनो ब्रह्म’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादि ; इह पुनः — त्वम् अहमस्मि, अहं च त्वमसीत्याह — अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः ; भेददृष्ट्यपवादाच्च ; तथा हि — ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति । यत्तूक्तम् — न विरुद्धगुणयोरन्योन्यात्मत्वसम्भव इति, नायं दोषः, विरुद्धगुणताया मिथ्यात्वोपपत्तेः । यत्पुनरुक्तम् — ईश्वराभावप्रसङ्ग इति, तदसत् , शास्त्रप्रामाण्यात् अनभ्युपगमाच्च ; न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः — किं तर्हि ? — संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति । एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते । यदप्युक्तम् — अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ; ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , न, इष्टत्वात् ; ‘अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, ‘वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । कस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते — इति वदामः । ननु अहमीश्वर एवोक्तः श्रुत्या — यद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधः । योऽपि दोषश्चोद्यते कैश्चित् — अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति, सोऽपि एतेन प्रत्युक्तः । तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥