०१ आवृत्तिरसकृदुपदेशात् ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इति च एवमादिश्रवणेषु संशयः — किं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येति । किं तावत्प्राप्तम् ? सकृत्प्रत्ययः स्यात् , प्रयाजादिवत् , तावता शास्त्रस्य कृतार्थत्वात् ; अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् । ननु असकृदुपदेशा उदाहृताः — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्येवमादयः — एवमपि यावच्छब्दमावर्तयेत् — सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति, नातिरिक्तम् । सकृदुपदेशेषु तु ‘वेद’ ‘उपासीत’ इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते, ब्रूमः — प्रत्ययावृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति । ननु उक्तम् — यावच्छब्दमेव आवर्तयेत् , नाधिकमिति — न, दर्शनपर्यवसितत्वादेषाम् ; दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति — यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि , तद्वत् । अपि च उपासनं निदिध्यासनं च इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते ; तथा हि लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति च यस्तात्पर्येण गुर्वादीननुवर्तते, स एवमुच्यते ; तथा ‘ध्यायति प्रोषितनाथा पतिम्’ इति — या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधीयते । विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते ; क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथा — ‘यस्तद्वेद यत्स वेद स मयैतदुक्तः’ (छा. उ. ४ । १ । ४) इत्यत्र ‘अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से’ (छा. उ. ४ । २ । २) इति ; क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति, यथा — ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यत्र ‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद’ (छा. उ. ३ । १८ । ३) इति । तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥
०२ लिङ्गाच्च ॥
लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति । तथा हि — उद्गीथविज्ञानं प्रस्तुत्य, ‘आदित्य उद्गीथः’ (छा. उ. १ । ५ । १) इत्येतत् एकपुत्रतादोषेणापोद्य, ‘रश्मींस्त्वं पर्यावर्तयात्’ (छा. उ. १ । ५ । २) इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति ; तत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः ॥
अत्राह — भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः, तेष्वावृत्तिसाध्यस्यातिशयस्य सम्भवात् ; यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रुतौ च ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् , न, आवृत्तावपि तदनुपपत्तेः ; यदि हि ‘तत्त्वमसि’ इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात् । अथोच्येत — न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति ; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति — तथाप्यावृत्त्यानर्थक्यमेव ; सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति । अथापि स्यात् — युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते, न विशेषविषयम् ; यथा ‘अस्ति मे हृदये शूलम्’ इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते, न विशेषमनुभवति — यथा स एव शूली ; विशेषानुभवश्च अविद्याया निवर्तकः ; तदर्था आवृत्तिरिति चेत् — न, असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसम्भवात् ; न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते ; तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः ; न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम् । अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम् — इति स्यादप्यभ्यासोपयोगः, यथा दीर्घप्रपाठकग्रहणादिषु ; न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति ॥
अत्रोच्यते — भवेदावृत्त्यानर्थक्यं तं प्रति, यः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् ; यस्तु न शक्नोति, तं प्रति उपयुज्यत एव आवृत्तिः । तथा हि च्छान्दोग्ये — ‘तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इत्युपदिश्य, ‘भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ८ । ७) इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य, ‘तत्त्वमसि’ इत्येवासकृदुपदिशति ; तथा च ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) इत्यादि दर्शितम् । ननु उक्तम् — सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति, तत आवर्त्यमानमपि नैव शक्ष्यतीति — नैष दोषः ; न हि दृष्टेऽनुपपन्नं नाम ; दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः । अपि च ‘तत्त्वमसि’ इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे ; तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते — ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘अदृष्टं द्रष्टृ’ (बृ. उ. ३ । ८ । ११) ‘अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘अजमजरममरम्’ ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ इत्यादिशास्त्रसिद्धम् ; तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः ; अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः ; विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् ; एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः ; तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया सम्भाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः ; तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ, तेषां ‘तत्त्वमसि’ इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति, पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य — इत्यतः, तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः । यद्यपि च प्रतिपत्तव्य आत्मा निरंशः, तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् ; तत्र एकेन अवधानेन एकमंशमपोहति, अपरेण अपरम् — इति युज्यते तत्र क्रमवती प्रतिपत्तिः ; तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव ; सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्रमोऽभ्युपगम्यते । सत्यमेवं युज्येत, यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् ; बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः ; अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् — न, देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः ; प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा ‘अहं छिद्ये दह्ये’ इति च मिथ्याभिमानो दृष्टः ; तथा बाह्यतरेष्वपि पुत्रमित्रादिषु सन्तप्यमानेषु ‘अहमेव सन्तप्ये’ इत्यध्यारोपो दृष्टः ; तथा दुःखित्वाद्यभिमानोऽपि स्यात् , देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् , सुषुप्तादिषु च अननुवृत्तेः ; चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्ति — ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’ (बृ. उ. ४ । ३ । २३) इत्यादिना ; तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः । न च एवम् आत्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते ; तथा च श्रुतिः — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यात्मविदः कर्तव्याभावं दर्शयति ; स्मृतिरपि — ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ (भ. गी. ३ । १७) इति । यस्य तु न एषोऽनुभवो द्रागिव जायते, तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः । तत्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् ; न हि वरघाताय कन्यामुद्वाहयन्ति ; नियुक्तस्य च ‘अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम्’ इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते ; यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः ॥ २ ॥