तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात् ; अथेह चतुर्थे फलाश्रय आगमिष्यति ; प्रसङ्गागतं च अन्यदपि किञ्चिच्चिन्तयिष्यते ; प्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः —