५२ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् — इत्याशङ्क्य, आह — मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः । कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते ; ब्रह्मैव हि मुक्त्यवस्था ; न च ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात् — ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘इदँ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६), ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५), ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ ; तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात् ; उत्कृष्टैव हि विद्या भवति ; तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् ; न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति ; नैवं निर्गुणायां विद्यायाम् , गुणाभावात् ; तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०) इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः ॥