४७ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥
‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ (बृ. उ. ३ । ५ । १) इति बृहदारण्यके श्रूयते । तत्र संशयः — मौनं विधीयते, न वेति । न विधीयत इति तावत्प्राप्तम् , ‘बाल्येन तिष्ठासेत्’ इत्यत्रैव विधेरवसितत्वात् ; न हि ‘अथ मुनिः’ इत्यत्र विधायिका विभक्तिरुपलभ्यते ; तस्मादयमनुवादो युक्तः । कुतः प्राप्तिरिति चेत् — मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात् ‘पाण्डित्यं निर्विद्य’ इत्येव प्राप्तं मौनम् । अपि च ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इत्यत्र तावत् न ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात् ; तस्मात् ‘अथ ब्राह्मणः’ इति प्रशंसावादः, तथैव ‘अथ मुनिः’ इत्यपि भवितुमर्हति, समाननिर्देशत्वादित्येवं प्राप्ते ब्रूमः —
सहकार्यन्तरविधिरिति । विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात् । ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् — नैष दोषः, मुनिशब्दस्य ज्ञानातिशयार्थत्वात् , मननान्मुनिरिति च व्युत्पत्तिसम्भवात् , ‘मुनीनामप्यहं व्यासः’ (भ. गी. १० । ३७) इति च प्रयोगदर्शनात् । ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते ‘गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्’ इत्यत्र — न, ‘वाल्मीकिर्मुनिपुङ्गवः’ इत्यादिषु व्यभिचारदर्शनात् ; इतराश्रमसन्निधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् , ज्ञानप्रधानत्वादुत्तमाश्रमस्य । तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते । यत्तु बाल्य एव विधिपर्यवसानमिति, तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते — मुनिः स्यादिति ; निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् । तद्वतः विद्यावतः संन्यासिनः । कथं च विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात् — आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय ‘अथ भिक्षाचर्यं चरन्ति’ इति । ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना — इत्यत आह — पक्षेणेति । एतदुक्तं भवति — यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति, तस्मिन् एष विधिरिति । विध्यादिवत् — यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः ‘अभिसमावृत्य कुटुम्बे’ (छा. उ. ८ । १५ । १) इत्यत्र ? तेन हि उपसंहरन् तद्विषयमादरं दर्शयति — इत्यत उत्तरं पठति —
४८ कृत्स्नभावात्तु गृहिणोपसंहारः ॥
तुशब्दो विशेषणार्थः ; कृत्स्नभावोऽस्य विशेष्यते ; बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासम्भवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसंहारो न विरुध्यते ॥ ४८ ॥
४९ मौनवदितरेषामप्युपदेशात् ॥
यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वानप्रस्थगुरुकुलवासौ ; दर्शिता हि पुरस्ताच्छ्रुतिः — ‘तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ (छा. उ. २ । २३ । १) इत्याद्या । तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः । इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा — इति द्रष्टव्यम् ॥ ४९ ॥