१३ स्वाम्यधिकरणम्

४४ स्वामिनः फलश्रुतेरित्यात्रेयः ॥

अङ्गेषूपासनेषु संशयः — किं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीति । किं तावत्प्राप्तम् ? यजमानकर्माणीति । कुतः ? फलश्रुतेः ; फलं हि श्रूयते — ‘वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधँ सामोपास्ते’ (छा. उ. २ । ३ । २) इत्यादि ; तच्च स्वामिगामि न्याय्यम् , तस्य साङ्गे प्रयोगेऽधिकृतत्वात् , अधिकृताधिकारत्वाच्च एवंजातीयकस्य ; फलं च कर्तरि उपासनानां श्रूयते — ‘वर्षत्यस्मै य उपास्ते’ इत्यादि । ननु ऋत्विजोऽपि फलं दृष्टम् ‘आत्मने वा यजमानाय वा यं कामं कामयते तमागायति’ (बृ. उ. १ । ३ । २८) इति — न, तस्य वाचनिकत्वात् । तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् — इत्यात्रेय आचार्यो मन्यते ॥ ४४ ॥

४५ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥

नैतदस्ति — स्वामिकर्माण्युपासनानीति ; ऋत्विक्कर्माण्येतानि स्युः — इत्यौडुलोमिराचार्यो मन्यते । किं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयते ; तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात् ; तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन् ; तथा च ‘तँ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव’ (छा. उ. १ । २ । १३) इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयति । यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति — नैष दोषः, परार्थत्वादृत्विजः अन्यत्र वचनात् फलसम्बन्धानुपपत्तेः ॥ ४५ ॥

४६ श्रुतेश्च ॥

‘यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाच’ इति, ‘तस्मादु हैवंविदुद्गाता ब्रूयात्कं’ (छा. उ. १ । ७ । ८)‘ते काममागायानि’ (छा. उ. १ । ७ । ९) इति च ऋत्विक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति । तस्मात् अङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः ॥ ४६ ॥