१२ बहिरधिकरणम्

४३ बहिस्तूभयथापि स्मृतेराचाराच्च ॥

यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् , यदि वा उपपातकम् , उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’ इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥