४१ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य ‘ब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेत’ इत्येतत्प्रायश्चित्तं स्यात् , उत नेति । नेत्युच्यते ; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ‘अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’ (जै. सू. ६ । ८ । २२) इति, तदपि न नैष्ठिकस्य भवितुमर्हति ; किं कारणम् ? ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’ इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः ; उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥
४२ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥
अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते ; यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् ; तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च ; अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते ; ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् ; तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’ (जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै. सू. १ । ३ । ९) इति । प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’ इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥