४० तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥
सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् ; तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वधर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि — ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २ । २३ । १) इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति, ‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’ इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्वधर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् — ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३ । ३५) इति स्मरणात् , न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते । चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥