३६ अन्तरा चापि तु तद्दृष्टेः ॥
विधुरादीनां द्रव्यादिसम्पद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्ति — इति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम् — इत्येवं प्राप्ते, इदमाह — अन्तरा चापि तु — अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । कुतः ? तद्दृष्टेः — रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥
३७ अपि च स्मर्यते ॥
संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥ ३७ ॥
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् ; का नु खलु प्राप्तिरिति, सा अभिधीयते —
३८ विशेषानुग्रहश्च ॥
तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवति । तथा च स्मृतिः — ‘जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’ (म. स्मृ. २ । ८७) इति असम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति । जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः ; तथा च स्मृतिः — ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५) इति जन्मान्तरसञ्चितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति । दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु । तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥
३९ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥
अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् , श्रुतिस्मृतिसन्दृब्धत्वात् ; श्रुतिलिङ्गाच्च — ‘तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ (बृ. उ. ४ । ४ । ९) इति ; ‘अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’ इति च स्मृतिलिङ्गात् ॥ ३९ ॥