०८ आश्रमकर्माधिकरणम्

३२ विहितत्वाच्चाश्रमकर्मापि ॥

‘सर्वापेक्षा च’ (ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम् ; इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि, उताहो नेति चिन्त्यते । तत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि ; अथ तस्याप्यनुष्ठेयानि, न तर्हि एषां विद्यासाधनत्वम् , नित्यानित्यसंयोगविरोधात् — इत्यस्यां प्राप्तौ, पठति — आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिना विहितत्वात् ; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥

अथ यदुक्तम् — नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति —

३३ सहकारित्वेन च ॥

विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिना ; तदुक्तम् — ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इति । न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् , अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्य । विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते, नैवं विद्या । तथा चोक्तम् — ‘अत एव चाग्नीन्धनाद्यनपेक्षा’ (ब्र. सू. ३ । ४ । २५) इति । तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः । न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् ; नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम् ; अनित्यस्तु अपरः संयोगः ‘तमेतं वेदानुवचनेन’ (बृ. उ. ४ । ४ । २२) इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥

३४ सर्वथापि त एवोभयलिङ्गात् ॥

सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘त एव’ इत्यवधारयन्नाचार्यः किं निवर्तयति ? कर्मभेदशङ्कामिति ब्रूमः ; यथा कुण्डपायिनामयने ‘मासमग्निहोत्रं जुह्वति’ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते, नैवमिह कर्मभेदोऽस्तीत्यर्थः । कुतः ? उभयलिङ्गात् — श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, न तु ‘जुह्वति’ इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति । स्मृतिलिङ्गमपि — ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ (भ. गी. ६ । १) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति । ‘यस्यैतेऽष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. सू. १ । ८ । २५) इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति । तस्मात्साध्विदम् अभेदावधारणम् ॥ ३४ ॥

३५ अनभिभवं च दर्शयति ॥

सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम् । अनभिभवं च दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिभिः क्लेशैः — ‘एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते’ (छा. उ. ८ । ५ । ३) इत्यादिना । तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति स्थितम् ॥ ३५ ॥