२८ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥
प्राणसंवादे श्रूयते छन्दोगानाम् — ‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति ; तथा वाजसनेयिनाम् — ‘न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’ (बृ. उ. ६ । १ । १४) इति ; सर्वमस्यादनीयमेव भवतीत्यर्थः । किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशये — विधिरिति तावत्प्राप्तम् ; तथा हि प्रवृत्तिविशेषकर उपदेशो भवति ; अतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते । ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् — नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेः ; यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च ‘न काञ्चन परिहरेत्तद्व्रतम्’ (छा. उ. २ । १३ । २) इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते — एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः —
नेदं सर्वान्नानुज्ञानं विधीयत इति ; न हि अत्र विधायकः शब्द उपलभ्यते, ‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति वर्तमानापदेशात् । न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते । अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते — नैवंविदः किञ्चिदनन्नं भवतीति ; न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते ; शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् । तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः । तद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्यये’ इति ; एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात् ; तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ‘मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणे — चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद ; अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे ; कारणं चात्रोवाच ‘न वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४) इति, ‘कामो म उदपानम्’ (छा. उ. १ । १० । ४) इति च ; पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव — इति ; तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते — प्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति ; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि — इत्यनुपानप्रत्याख्यानाद्गम्यते । तस्मात् अर्थवादः ‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥
२९ अबाधाच्च ॥
एवं च सति ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति ॥ २९ ॥
३० अपि च स्मर्यते ॥
अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण — ‘जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा’ (म.स्मृ. १० । १०४) इति । तथा ‘मद्यं नित्यं ब्राह्मणः’ ‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’ (गौ. ध. सू. ३ । ५ । १), ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्’ इति च स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥
३१ शब्दश्चातोऽकामकारे ॥
शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘तस्माद्ब्राह्मणः सुरां न पिबेत्’ इति । सोऽपि ‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १) इत्यस्यार्थवादत्वात् उपपन्नतरो भवति । तस्मादेवंजातीयका अर्थवादा न विधय इति ॥ ३१ ॥