०६ सर्वापेक्षाधिकरणम्

२६ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥

इदमिदानीं चिन्त्यते — किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेति । तत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते ; इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायाम् , इदमुच्यते — सर्वापेक्षा चेति ; अपेक्षते च विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैव । ननु विरुद्धमिदं वचनम् — अपेक्षते च आश्रमकर्माणि विद्या, नापेक्षते चेति । नेति ब्रूमः ; उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चिदन्यदपेक्षते, उत्पत्तिं प्रति तु अपेक्षते । कुतः ? यज्ञादिश्रुतेः ; तथा हि श्रुतिः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ (बृ. उ. ४ । ४ । २२) इति यज्ञादीनां विद्यासाधनभावं दर्शयति । विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयते ; ‘अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्’ (छा. उ. ८ । ५ । १) इत्यत्र च विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यते ; ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’ (क. उ. १ । २ । १५) इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयति । स्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इत्येवमाद्या । अश्ववदिति योग्यतानिदर्शनम् — यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति ॥ २६ ॥

२७ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥

यदि कश्चिन्मन्येत — यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात् ; ‘यज्ञेन विविदिषन्ति’ इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा, न यज्ञादिविधिपरा — इत्थं महाभागा विद्या, यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीति — तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, ‘तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात् । ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः — नेति ब्रूमः, ‘तस्मात्’ इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः ; ‘पश्येत्’ इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव । ननु उक्तम् — यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम् ; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते ; न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत ; ‘तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि’ इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य, ‘पौष्णं पेषणं विकृतौ प्रतीयेत’ (शाब. भा. ३ । ३ । ३४) — इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः ; तथा च उक्तम् ‘विधिर्वा धारणवत्’ (ब्र. सू. ३ । ४ । २०) इति । स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् । तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि । तत्रापि ‘एवंवित्’ इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥