२५ अत एव चाग्नीन्धनाद्यनपेक्षा ॥
‘पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १) इत्येतत् व्यवहितमपि सम्भवात् ‘अतः’ इति परामृश्यते । अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ २५ ॥