०४ पारिप्लवाधिकरणम्

२३ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥

‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च’ (बृ. उ. ४ । ५ । १) ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ (कौ. उ. ३ । १) ‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’ (छा. उ. ४ । १ । १) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः — किमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्सन्निहितविद्याप्रतिपत्त्यर्थानीति । पारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात् , आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् ; ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् , मन्त्रवत् प्रयोगशेषत्वादिति चेत् — तन्न । कस्मात् ? विशेषितत्वात् — ‘पारिप्लवमाचक्षीत’ इति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजा’ इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते । आख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत् । तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥

२४ तथा चैकवाक्यतोपबन्धात् ॥

असति च पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात् ; तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च । मैत्रेयीब्राह्मणे तावत् — ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते ; प्रातर्दनेऽपि ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्याद्यया ; ‘जानश्रुतिः’ इत्यत्रापि ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) इत्याद्यया । यथा ‘स आत्मनो वपामुदखिदत्’ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां सन्निहितविधिस्तुत्यर्थता, तद्वत् । तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥