२१ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥
‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’ (छा. उ. १ । १ । ३) ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) ‘अयं वाव लोकः, एषोऽग्निश्चितः । तदिदमेवोक्थमियमेव पृथिवी’ इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये — स्तुत्यर्था इति युक्तम् , उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् ; यथा ‘इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः’ इत्याद्या जुह्वादिस्तुत्यर्थाः, तद्वत् — इति चेत् , नेत्याह ; न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् , अपूर्वत्वात् ; विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति ; स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् ; विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इत्यत्र ; प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् ; ‘इयमेव जुहूः’ इत्यादि तु विधिसन्निधावेवाम्नातमिति वैषम्यम् । तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥
२२ भावशब्दाच्च ॥
‘उद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘सामोपासीत’ (छा. उ. २ । २ । १) ‘अहमुक्थमस्मीति विद्यात्’ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ; ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् । तथा च न्यायविदां स्मरणम् — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्’ इति ; लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति । प्रतिप्रकरणं च फलानि श्राव्यन्ते — ‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७) ‘एष ह्येव कामागानस्येष्टे’ (छा. उ. १ । ७ । ९) ‘कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’ (छा. उ. २ । २ । ३) इत्यादीनि ; तस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः ॥ २२ ॥