०२ परामर्शाधिकरणम्

१८ परामर्शं जैमिनिरचोदना चापवदति हि ॥

‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः, न ते तत्प्रतिपादनाय प्रभवन्ति ; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, न विधिम् । कुतः ? न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्ति ; अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते । ‘त्रयो धर्मस्कन्धाः’ इत्यत्र तावत् ‘यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति’ इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते — ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इति । ननु परामर्शेऽपि आश्रमा गम्यन्ते एव — सत्यं गम्यन्ते ; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, न प्रत्यक्षश्रुतेः ; अतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा । ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमः’ इति — सत्यमेवम् ; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम् ; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, न चोदनार्थः । अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् — ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’ (तै. उ. १ । ११ । १) ‘नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः’ इत्येवमाद्या । तथा ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) इति च देवयानोपदेशः, न आश्रमान्तरोपदेशः । सन्दिग्धं च आश्रमान्तराभिधानम् — ‘तप एव द्वितीयः’ (छा. उ. २ । २३ । १) इत्येवमादिषु । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इति लोकसंस्तवोऽयम् , न पारिव्राज्यविधिः । ननु ‘ब्रह्मचर्यादेव प्रव्रजेत्’ इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम् — सत्यमेवमेतत् ; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ १८ ॥

१९ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥

अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते — वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् — इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः । कुतः ? साम्यश्रुतेः ; समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते — ‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्याद्या ; यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् , एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् — यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये ; तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ; ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) इत्यस्य च पञ्चाग्निविद्यया । यत्तूक्तम् — ‘तप एव द्वितीयः’ इत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमिति ; नैष दोषः, निश्चयकारणसद्भावात् ; ‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ; न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते ; तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत । ‘ये चेमेऽरण्ये’ (छा. उ. ५ । १० । १) इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः । तस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥

२० विधिर्वा धारणवत् ॥

विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम् । ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत ; प्रतीयते च अत्र एकवाक्यता — पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत् ; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात् , विध्यन्तरस्यादर्शनात् , विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः । धारणवत् — यथा ‘अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति’ इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात् ; तथा च उक्तं शेषलक्षणे ‘विधिस्तु धारणेऽपूर्वत्वात्’ (जै. सू. ३ । ४ । १५) इति ; तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते ॥

यदापि परामर्श एवायमाश्रमान्तराणाम् , तदापि ब्रह्मसंस्थता तावत् , संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्या । सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचित् , आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् । यदि च ब्रह्मचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति ; अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति । तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित् । तदयुक्तम् ; न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति ; यथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम् ; तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् , तपःशब्दस्य तत्र रूढेः ; भिक्षोस्तु धर्म इन्द्रियसंयमादिः लक्षणयैव तपःशब्देनाभिलप्येत । चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम् । अपि च भेदव्यपदेशोऽत्र भवति — त्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागिति ; पृथक्त्वे च भेदव्यपदेशोऽवकल्पते ; न ह्येवं भवति — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इति ; भवति त्वेवम् — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति ; तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परिव्राट् अमृतत्वभाक् । कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति — अत्रोच्यते — ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ; तच्च त्रयाणामाश्रमाणां न सम्भवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् ; परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न सम्भवति अननुष्ठाननिमित्तः ; शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थाया उपोद्बलकः, न विरोधी ; ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म ; यज्ञादीनि च इतरेषाम् ; तद्व्यतिक्रमे च तस्य प्रत्यवायः । तथा च ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाँसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३ । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३) इत्याद्याः श्रुतयः, स्मृतयश्च ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’ (भ. गी. ५ । १७) इत्याद्याः — ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति । तस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति । तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम् , पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव । अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः ; विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति ; न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् , पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४) इत्यादिना ; ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति’ (जा. उ. ५) इति । तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥