०१ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥
पुरुषार्थोऽत इति । अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते । कुत एतदवगम्यते ? शब्दादित्याह । तथा हि — ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्युपक्रम्य, ‘स सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानाति’ (छा. उ. ८ । ७ । १) इति ; ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्युपक्रम्य, ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति ॥ १ ॥
अथात्र प्रत्यवतिष्ठते —
०२ शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥
कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसम्बन्ध्येव — इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः — इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्यसंस्कारकर्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापँ श्लोकँ शृणोति’ ‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’ ‘यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै’ इत्येवंजातीयका फलश्रुतिः अर्थवादः — तद्वत् । कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , न, वाक्याद्विनियोगानुपपत्तेः — अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसम्बन्धोऽवकल्पते ; कर्ता तु व्यभिचारि द्वारम् , लौकिकवैदिककर्मसाधारण्यात् ; तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसम्बन्धसिद्धिरिति — न, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् ; न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः ; वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम् । ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् — न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वोपदेशात् ; अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् — अधिकमसंसारि ब्रह्म जगत्कारणम् ; तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति — सत्यं प्रसाधितम् ; तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥
०३ आचारदर्शनात् ॥
‘जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे’ (बृ. उ. ३ । १ । १) ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ (छा. उ. ५ । ११ । ५) इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्मसम्बन्धदर्शनानि भवन्ति । तथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसम्बन्धोऽवगम्यते । केवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात् , किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः ? ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायात् ॥ ३ ॥
०४ तच्छ्रुतेः ॥
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति च कर्मशेषत्वश्रवणात् विद्याया न केवलायाः पुरुषार्थहेतुत्वम् ॥ ४ ॥
०५ समन्वारम्भणात् ॥
‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः ॥ ५ ॥
०६ तद्वतो विधानात् ॥
‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’ (छा. उ. ८ । १५ । १) इति च एवंजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति ; तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् । ननु अत्र ‘अधीत्य’ इत्यध्ययनमात्रं वेदस्य श्रूयते, न अर्थविज्ञानम् — नैष दोषः ; दृष्टार्थत्वात् वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम् ॥ ६ ॥
०७ नियमाच्च ॥
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ (ई. उ. २) इति — तथा ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा’ — इत्येवंजातीयकात् नियमादपि कर्मशेषत्वमेव विद्याया इति ॥ ७ ॥
एवं प्राप्ते, प्रतिविधत्ते —
०८ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥
तुशब्दात् पक्षो विपरिवर्तते । यदुक्तम् ‘शेषत्वात्पुरुषार्थवादः’ (ब्र. सू. ३ । ४ । २) इति, तत् नोपपद्यते । कस्मात् ? अधिकोपदेशात् ; यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात् , ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् ; अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु । न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्युच्छिनत्ति — इति वक्ष्यति ‘उपमर्दं च’ (ब्र. सू. ३ । ४ । १६) इत्यत्र । तस्मात् ‘पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १) इति यन्मतं भगवतो बादरायणस्य, तत् तथैव तिष्ठति ; न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते । तथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयः — ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘भीषास्माद्वातः पवते’ (तै. उ. २ । ८ । १) ‘महद्भयं वज्रमुद्यतम्’ (क. उ. २ । ३ । २) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येवमाद्याः । यत्तु प्रियादिसंसूचितस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम् — ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इत्युपक्रम्य ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चैवमादि — तदपि, ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’ (बृ. उ. २ । ४ । १०) ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम् , अत्यन्ताभेदाभिप्रायमित्यविरोधः । पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम् ; उपाधिकृतं तु शारीरत्वम् , ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यः । सर्वं च एतत् विस्तरेणास्माभिः पुरस्तात् तत्र तत्र वर्णितम् ॥ ८ ॥
०९ तुल्यं तु दर्शनम् ॥
यत्तूक्तम् — आचारदर्शनात्कर्मशेषो विद्येति, अत्र ब्रूमः — तुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्यायाः । तथा हि श्रुतिर्भवति — ‘एतद्ध स्म वै तद्विद्वांस आहुऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ ‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे’ ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) इत्येवंजातीयका । याज्ञवल्क्यादीनामपि ब्रह्मविदाम् अकर्मनिष्ठत्वं दृश्यते — ‘एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः ‘प्रवव्राज’ (बृ. उ. ८ । ७ । २) इत्यादिश्रुतिभ्यः । अपि च ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ (छा. उ. ५ । ११ । ५) इत्येतत् लिङ्गदर्शनं वैश्वानरविद्याविषयम् ; सम्भवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् ; न तु अत्रापि कर्माङ्गत्वमस्ति, प्रकरणाद्यभावात् ॥ ९ ॥
यत्पुनरुक्तम् — ‘तच्छ्रुतेः’ (ब्र. सू. ३ । ४ । ४) इति, अत्र ब्रूमः —
१० असार्वत्रिकी ॥
‘यदेव विद्यया करोति’ (छा. उ. १ । १ । १०) इत्येषा श्रुतिर्न सर्वविद्याविषया, प्रकृतविद्याभिसम्बन्धात् । प्रकृता च उद्गीथविद्या — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्यत्र ॥ १० ॥
११ विभागः शतवत् ॥
यदप्युक्तम् — ‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यते — विभागोऽत्र द्रष्टव्यः — विद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमिति । शतवत् — यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते — पञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत् । न च इदं समन्वारम्भवाचनं मुमुक्षुविषयम् — ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति संसारिविषयत्वोपसंहारात् , ‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति च मुमुक्षोः पृथगुपक्रमात् ; तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते, विशेषाभावात् ; कर्मापि विहितं प्रतिषिद्धं च, यथाप्राप्तानुवादित्वात् ; एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते ॥ ११ ॥
यच्चैतत् — ‘तद्वतो विधानात्’ (ब्र. सू. ३ । ४ । ६) इति, अत उत्तरं पठति —
१२ अध्ययनमात्रवतः ॥
‘आचार्यकुलाद्वेदमधीत्य’ (छा. उ. ८ । १५ । १) इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः । ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत — नैष दोषः ; न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः । किं तर्हि ? औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् न कर्माधिकारकारणतां प्रतिपद्यते — इत्येतत्प्रतिपादयामः । यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥
यदप्युक्तम् — ‘नियमाच्च’ (ब्र. सू. ३ । ४ । ७) इति, अत्राभिधीयते —
१३ नाविशेषात् ॥
‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (ई. उ. २) इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति, अविशेषेण नियमविधानात् ॥ १३ ॥
१४ स्तुतयेऽनुमतिर्वा ॥
‘कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव — कुर्वन् — इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् ; ‘न कर्म लिप्यते नरे’ (ई. उ. २) इति हि वक्ष्यति । एतदुक्तं भवति — यावज्जीवं कर्म कुर्वत्यपि त्वयि विदुषि पुरुषे न कर्म लेपाय भवति, विद्यासामर्थ्यादिति — तदेवं विद्या स्तूयते ॥ १४ ॥
१५ कामकारेण चैके ॥
अपि च एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेण — इति श्रुतिर्भवति वाजसनेयिनाम् — ‘एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति’ (बृ. उ. ४ । ४ । २२) । अनुभवारूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि — इत्यसकृदवोचाम । अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥ १५ ॥
१६ उपमर्दं च ॥
अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामर्थ्यात् स्वरूपोपमर्दमामनन्ति — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्’ (बृ. उ. २ । ४ । १४) इत्यादिना । वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १६ ॥
१७ ऊर्ध्वरेतःसु च शब्दे हि ॥
ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते ; न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात् ; न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि नास्ति ; तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥