२१ इयदधिकरणम्

३४ इयदामननात् ॥

‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) — इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराश्च पठन्ति ; तथा कठाः — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्ठौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इति । किमत्र विद्यैकत्वम् , उत विद्यानानात्वमिति संशयः । किं तावत्प्राप्तम् ? विद्यानानात्वमिति । कुतः ? विशेषदर्शनात् — ‘द्वा सुपर्णा’ इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते ; ‘ऋतं पिबन्तौ’ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते ; तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति —

विद्यैकत्वमिति । कुतः ? यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति । ननु दर्शितो रूपभेदः — नेत्युच्यते ; उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम् । ‘द्वा सुपर्णा’ इत्यत्र तावत् — ‘अनश्नन्नन्यो अभिचाकशीति’ इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते ; वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ (श्वे. उ. ४ । ७) इति ; ‘ऋतं पिबन्तौ’ इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते ; परमात्मप्रकरणं हि एतत् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इत्युपक्रमात् ; तद्विषय एव च अत्रापि वाक्यशेषो भवति — ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्’ (क. उ. १ । ३ । २) इति । ‘गुहां प्रविष्टावात्मानौ हि’ (ब्र. सू. १ । २ । ११) इत्यत्र च एतत्प्रपञ्चितम् । तस्मान्नास्ति वेद्यभेदः ; तस्माच्च विद्यैकत्वम् । अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते ; तादात्म्यविवक्षयैव जीवोपादानम् , नार्थान्तरविवक्षया ; न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम् । तस्मात्प्रपञ्चार्थ एव एष योगः ; तस्माच्चाधिकधर्मोपसंहार इति ॥ ३४ ॥