१३ पुरुषविद्याधिकरणम्

२४ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥

अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ; तत्र पुरुषो यज्ञः कल्पितः ; तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् ; अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ; अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः । तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति — ‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’ (ना. उ. ८०) इत्येतेनानुवाकेन । तत्र संशयः — किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः तैत्तिरीयकेषु उपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति । पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ, आचक्ष्महे — नोपसंहर्तव्या इति । कस्मात् ? तद्रूपप्रत्यभिज्ञानाभावात् ; तदाहाचार्यः पुरुषविद्यायामिवेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् , नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति ; तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते, पत्नीयजमानवेदिवेदबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात् । यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव — ‘यत्प्रातर्मध्यन्दिनं सायं च तानि’ (ना. उ. ८०) इति । यदपि किञ्चित् मरणावभृथत्वादिसामान्यं , तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् । न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते ; ‘विदुषः’ ‘यज्ञस्य’ इति हि न च एते समानाधिकरणे षष्ठ्यौ — विद्वानेव यो यज्ञस्तस्येति ; न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति ; व्यधिकरणे तु एते षष्ठ्यौ — विदुषो यो यज्ञस्तस्येति ; भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः ; सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः । ‘आत्मा यजमानः’ इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति । अपि च ‘तस्यैवं विदुषः’ इति सिद्धवदनुवादश्रुतौ सत्याम् , पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् । अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ‘तस्यैवं विदुषः’ इत्याद्यनुक्रमणं पश्यन्तः — पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः ; तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे — ‘ब्रह्मणो महिमानमाप्नोति’ (ना. उ. ८०) इति ; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः ; आयुरभिवृद्धिफलो ह्यसौ, ‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’ (छा. उ. ३ । १६ । ७) इति समभिव्याहारात् । तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके ॥ २४ ॥