१९ समान एवं चाभेदात् ॥
वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता ; तत्र च गुणाः श्रूयन्ते — ‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्येवमादयः ; तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते — ‘मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च’ (बृ. उ. ५ । ६ । १) इति । तत्र संशयः — किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणानुपसंहारश्चेति । किं तावत्प्राप्तम् ? विद्याभेदः गुणव्यवस्था चेति । कुतः ? पौनरुक्त्यप्रसङ्गात् — भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु — इत्युक्तम् ; एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्था एका विद्या भवितुमर्हति । न च अत्र एकमाम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति विभागः सम्भवति ; तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् , न समानाः ; समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः । तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते ब्रूमहे —
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे ; उपास्यं च रूपं विद्यायाः ; न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः ; नापि विद्याभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः ; नेत्युच्यते, अर्थविभागोपपत्तेः — एकं हि आम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति न किञ्चिन्नोपपद्यते । ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि ; यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ; समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये सञ्जाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥