३८ फलमत उपपत्तेः ॥
तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः ; स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते ; कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् , अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ; तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् ; न हि असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
३९ श्रुतत्वाच्च ॥
न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः — किं तर्हि ? — श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे, तथा च श्रुतिर्भवति — ‘स वा एष महानज आत्मान्नादो वसुदानः’ (बृ. उ. ४ । ४ । २४) इत्येवंजातीयका ॥ ३९ ॥
४० धर्मं जैमिनिरत एव ॥
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु ; तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते ; अन्यथा हि अननुष्ठातृको याग आपद्येत ; तत्र अस्य उपदेशवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः ; नैष दोषः, श्रुतिप्रामाण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः ; न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति ; अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम् , अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् , तदनुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥
४१ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥
बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते । कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः । कुतः ? हेतुव्यपदेशात् ; धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ इति ; स्मर्यते च अयमर्थो भगवद्गीतासु — ‘यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥’ (भ. गी. ७ । २१) ‘स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हितान्’ (भ. गी. ७ । २२) इति । सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते ; तदेव च ईश्वरस्य फलहेतुत्वम् , यत् स्वकर्मानुरूपाः प्रजाः सृजति । विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ ४१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य द्वितीयः पादः ॥