यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव ; तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते —
३१ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥
परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति । कुतः ? सेतुव्यपदेशात् उन्मानव्यपदेशात् सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च । सेतुव्यपदेशस्तावत् — ‘अथ य आत्मा स सेतुर्विधृतिः’ (छा. उ. ८ । ४ । १) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं सङ्कीर्तयति ; सेतुशब्दश्च हि लोके जलसन्तानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः ; इह च सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति ; ‘सेतुं तीर्त्वा’ (छा. उ. ८ । ४ । २) इति च तरतिशब्दप्रयोगात् — यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते । उन्मानव्यपदेशश्च भवति — तदेतद्ब्रह्म चतुष्पात् अष्टाशफं षोडशकलमिति ; यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि, ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् ; तथा ब्रह्मणोऽप्युन्मानात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते । तथा सम्बन्धव्यपदेशो भवति — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति, ‘शारीर आत्मा’ (तै. उ. २ । ३ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४ । ३ । २१) इति च ; मितानां च मितेन सम्बन्धो दृष्टः, यथा नराणां नगरेण ; जीवानां च ब्रह्मणा सम्बन्धं व्यपदिशति सुषुप्तौ ; अतः ततः परमन्यदमितमस्तीति गम्यते । भेदव्यपदेशश्च एनमर्थं गमयति ; तथा हि — ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ (छा. उ. १ । ६ । ६) इत्यादित्याधारमीश्वरं व्यपदिश्य, ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति — ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इति ; अतिदेशं च अस्य अमुना रूपादिषु करोति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’ (छा. उ. १ । ७ । ५) इति ; सावधिकं च ईश्वरत्वमुभयोर्व्यपदिशति — ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १ । ६ । ८) इत्येकस्य, ‘ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’ (छा. उ. १ । ७ । ६) इत्येकस्य, यथा इदं मागधस्य राज्यम् , इदं वैदेहस्येति । एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीति ॥ ३१ ॥
एवं प्राप्ते, प्रतिपाद्यते —
३२ सामान्यात्तु ॥
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति, प्रमाणाभावात् — न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे ; सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् , अनन्यत्वं च कारणात् कार्यस्य ; न च ब्रह्मव्यतिरिक्तं किञ्चित् अजं सम्भवति, ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यवधारणात् ; एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते । ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् ; नेत्युच्यते — सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते ; सेतुरात्मेति हि आह, न अतः परमस्तीति ; तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ; न चैतत् न्याय्यम् ; हठो हि अप्रसिद्धकल्पना ; अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सेतुबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत ; न चैतन्न्याय्यम् , अजत्वादिश्रुतिविरोधात् ; सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते ; जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः ; अतः सेतुरिव सेतुः — इति प्रकृत आत्मा स्तूयते । ‘सेतुं तीर्त्वा’ इत्यपि तरतिः अतिक्रमासम्भवात् प्राप्नोत्यर्थ एव वर्तते — यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ ३२ ॥
३३ बुद्ध्यर्थः पादवत् ॥
यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते — उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् ; चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते ; न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति । पादवत् — यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥
३४ स्थानविशेषात्प्रकाशादिवत् ॥
इह सूत्रे द्वयोरपि सम्बन्धभेदव्यपदेशयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत् ; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्सम्बन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः ; यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ सम्बन्धभेदव्यपदेशौ भवतः — तद्वत् ॥ ३४ ॥
३५ उपपत्तेश्च ॥
उपपद्यते च अत्र ईदृश एव सम्बन्धः, नान्यादृशः — ‘स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति हि स्वरूपसम्बन्धमेनमामनन्ति ; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन सम्बन्धो घटते ; उपाधिकृतस्वरूपतिरोभावात्तु ‘स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युपपद्यते । तथा भेदोऽपि नान्यादृशः सम्भवति, बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् ; तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति — ‘योऽयं बहिर्धा पुरुषादाकाशः’ (छा. उ. ३ । १२ । ७) ‘योऽयमन्तः पुरुष आकाशः’ (छा. उ. ३ । १२ । ८) ‘योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ९) इति ॥ ३५ ॥
३६ तथाऽन्यप्रतिषेधात् ॥
एवं सेत्वादिव्यपदेशान् परपक्षहेतूनुन्मथ्य सम्प्रति स्वपक्षं हेत्वन्तरेणोपसंहरति । तथाऽन्यप्रतिषेधादपि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते ; तथा हि — ‘स एवाधस्तात्’ (छा. उ. ७ । २५ । १) ‘अहमेवाधस्तात्’ (छा. उ. ७ । २५ । १) ‘आत्मैवाधस्तात्’ (छा. उ. ७ । २५ । २) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदँ सर्वम्’ (छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) ‘यस्मात्परं नापरमस्ति किञ्चित्’ (श्वे. उ. ३ । ९) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति । सर्वान्तरश्रुतेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्तीत्यवगम्यते ॥ ३६ ॥
३७ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥
अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति ; अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात् ; तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत । सर्वगतत्वं च अस्य आयामशब्दादिभ्योऽवगम्यते ; आयामशब्दः व्याप्तिवचनः शब्दः ; ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ (छा. उ. ८ । १ । ३) ‘आकाशवत्सर्वगतश्च नित्यः’ ‘ज्यायान्दिवः’ (छा. उ. ३ । १४ । ३) ‘ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’ (भ. गी. २ । २४) इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति ॥ ३७ ॥