११ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥
येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्सम्पद्यते, तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते । सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्येवमाद्याः सविशेषलिङ्गाः ; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः । किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्तव्यम् , उतान्यतरलिङ्गम् ; यदाप्यन्यतरलिङ्गम् , तदापि सविशेषम् , उत निर्विशेषम् — इति मीमांस्यते । तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः — न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते ; न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् , विरोधात् । अस्तु तर्हि स्थानतः, पृथिव्याद्युपाधियोगादिति ; तदपि नोपपद्यते — न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः सम्भवति ; न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति, भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् ; सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५), (मुक्ति. उ. २ । १२) इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते ॥ ११ ॥
१२ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥
अथापि स्यात् — यदुक्तम् , निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते । कस्मात् ? भेदात् ; भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वामनीत्वादिलक्षणं ब्रह्म, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म, इत्येवंजातीयकाः ; तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति ; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदस्य ; अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत — इति चेत् , नेति ब्रूमः । कस्मात् ? प्रत्येकमतद्वचनात् ; प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा’ (बृ. उ. २ । ५ । १) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् , भेदस्य उपासनार्थत्वात् , अभेदे तात्पर्यात् ॥ १२ ॥
१३ अपि चैवमेके ॥
अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति — ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।’ (क. उ. २ । १ । ११) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । १ । १०) इति ; तथान्येऽपि — ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत्’ (श्वे. उ. १ । १२) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ १३ ॥
कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु , अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —
१४ अरूपवदेव हि तत्प्रधानत्वात् ॥
रूपाद्याकाररहितमेव हि ब्रह्म अवधारयितव्यम् , न रूपादिमत् । कस्मात् ? तत्प्रधानत्वात् ; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५), (मुक्ति. उ. २ । ७२), ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि, न अर्थान्तरप्रधानानि — इत्येतत्प्रतिष्ठापितम् ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र ; तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयितव्यम् । इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि ; उपासनाविधिप्रधानानि हि तानि ; तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् ; सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ १४ ॥
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिः इत्यत आह —
१५ प्रकाशवच्चावैयर्थ्यात् ॥
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते ; तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते ; एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति ; न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् — नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते ; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः ; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यासत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥
१६ आह च तन्मात्रम् ॥
आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म — ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इति । एतदुक्तं भवति — नास्य आत्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् — यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति, न रसान्तरम् , तथैवेति ॥ १६ ॥
१७ दर्शयति चाथो अपि स्मर्यते ॥
दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म — निर्विशेषत्वात् — ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) इत्येवमाद्या । बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते — ‘स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा’ इति । तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते — ‘ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते — ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’ (म. भा. १२ । ३३९ । ४५) ‘सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि’ (म. भा. १२ । ३३९ । ४६) इति ॥ १७ ॥
१८ अत एव चोपमा सूर्यकादिवत् ॥
यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ इति, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’ (ब्र. बिं. १२) इति चैवमादिषु ॥ १८ ॥
अत्र प्रत्यवस्थीयते —
१९ अम्बुवदग्रहणात्तु न तथात्वम् ॥
न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् ; सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते ; तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः ; न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥
अत्र प्रतिविधीयते —
२० वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥
युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसम्भवात् ; न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते ; सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् ; न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् ; शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति ; एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥
२१ दर्शनाच्च ॥
दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् — ‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्’ (बृ. उ. २ । ५ । १८) इति ; ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इति च । तस्माद्युक्तमेतत् ‘अत एव चोपमा सूर्यकादिवत्’ (ब्र. सू. ३ । २ । १८) इति । तस्मात् निर्विकल्पकैकलिङ्गमेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥
अत्र केचित् द्वे अधिकरणे कल्पयन्ति — प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म, उत प्रपञ्चवदनेकाकारोपेतमिति ; द्वितीयं तु प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उत उभयलक्षणमिति । अत्र वयं वदामः — सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ; यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासः, तत् पूर्वेणैव ‘न स्थानतोऽपि’ इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् ‘प्रकाशवच्च’ इत्येतद्व्यर्थमेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् — इति शक्यं वक्तुम् , ‘विज्ञानघन एव’ इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ; कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् — इति शक्यं वक्तुम् , ‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ; कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्म — इति शक्यं वक्तुम् , पूर्वाभ्युपगमविरोधप्रसङ्गात् ; सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत् , न, एकस्य अनेकस्वभावत्वानुपपत्तेः । अथ सत्तैव बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उतोभयलक्षणम् — इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु , अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः ; तादर्थ्येन ‘प्रकाशवच्च’ इत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते ॥
यदप्याहुः — आकारवादिन्योऽपि श्रुतयः प्रपञ्चप्रविलयमुखेन अनाकारप्रतिपत्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते । कथम् ? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा — ‘युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च’ (बृ. उ. २ । ५ । १९) इत्येवमादयः — ते भवन्तु प्रविलयार्थाः ; ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) इत्युपसंहारात् । ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते, यथा — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्येवमादयः — न तेषां प्रविलयार्थत्वं न्याय्यम् ; ‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) इत्येवंजातीयकेन प्रकृतेनैव उपासनविधिना तेषां सम्बन्धात् । श्रुत्या च एवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमवकल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति ‘अरूपवदेव हि तत्प्रधानत्वात्’ (ब्र. सू. ३ । २ । १४) इति विनिगमनकारणवचनम् अनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, क्वचिदैश्वर्यप्राप्तिः, क्वचित्क्रममुक्तिरित्यवगम्यत एव — इत्यतः पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम् , न एकवाक्यत्वम् ॥
कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् । एकनियोगप्रतीतेः, प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् , न, ब्रह्मवाक्येषु नियोगाभावात् — वस्तुमात्रपर्यवसायीनि हि ब्रह्मवाक्यानि, न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम् ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र । किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् ; पुरुषो हि नियुज्यमानः ‘कुरु’ इति स्वव्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति — अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवतीत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः — यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चप्रविलयः ; यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यते, एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः — ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म ; तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवति — इति । अत्र वयं पृच्छामः — कोऽयं प्रपञ्चप्रविलयो नाम ? किमग्निप्रतापसम्पर्कात् घृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः, आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः — इति । तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्यते, स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् । एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगदभविष्यत् । अथ अविद्याध्यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् , ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् — ‘एकमेवाद्वितीयं ब्रह्म’ ‘तत्सत्यँ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति — तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते ; तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते — अनावेदिते तु ब्रह्मणि ‘ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’ इति शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते । नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् ; न, निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः — रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ; न च कृतमेव पुनः क्रियते ॥
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति ; लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति ; ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते ; तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ; तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया ; स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च ; न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते ; न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् ; अतोऽपि नियोगाभावः । किञ्चान्यत् — नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् ; अथ शास्त्रमेव अनियोज्यब्रह्मात्मत्वमाचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ॥
अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् ; न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् ; प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम् ; न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति ; न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् ; न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥