०९ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥
तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति — इति दुःसम्पादम् — तद्वत् सुप्तः परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति ; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥
एवं प्राप्ते, इदमाह — स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्यः । कस्मात् ? कर्मानुस्मृतिशब्दविधिभ्यः । विभज्य हेतुं दर्शयिष्यामि । कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः ; तथा हि — पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते ; न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रसङ्गात् ; तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते । इतश्च स एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते ; न ह्यन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति ; सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते । शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ; तथा हि — ‘पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव’ (बृ. उ. ४ । ३ । १६) ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) ‘त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति’ (छा. उ. ६ । ९ । ३) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम् ईयुः । कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ; अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत । एवं चेत्स्यात् , वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ? अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् , तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् ; अथ तत्र सुप्त उत्तिष्ठेत् , कल्पनानर्थक्यं स्यात् । यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्याम् कल्पनायां लाभः स्यात् ? अथ मुक्त उत्तिष्ठेत् , अन्तवान्मोक्ष आपद्येत ; निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् । एतेन ईश्वरस्योत्थानं प्रत्युक्तम् , नित्यनिवृत्ताविद्यत्वात् । अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति । यत्पुनरुक्तम् — यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते, एवं सति सम्पन्नो जीवो नोत्पतितुमर्हतीति, तत्परिह्रियते — युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम् , इह तु विद्यते विवेककारणम् — कर्म च अविद्या च, इति वैषम्यम् ; दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम् । अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते, यो जलबिन्दुरिव जलराशेः सतो विविच्येत ; सदेव तु उपाधिसम्पर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् ; एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः, तावदेकजीवव्यवहारः ; उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः ; स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन — इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥