०२ तदभावाधिकरणम्

०७ तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥

स्वप्नावस्था परीक्षिता ; सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति ; क्वचिच्छ्रूयते — ‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इति ; अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते — ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति ; तथान्यत्र नाडीरेवानुक्रम्य — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. उ. ४ । १९) इति ; तथान्यत्र — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति ; तथान्यत्र — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति ; तथा — ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति च ॥

तत्र संशयः — किमेतानि नाड्यादीनि परस्परनिरपेक्षतया भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षया एकं सुषुप्तिस्थानमिति । किं तावत्प्राप्तम् ? भिन्नानीति । कुतः ? एकार्थत्वात् — न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् ; नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते, ‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) ‘पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति ; नैष दोषः, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् — वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह — ‘अन्यत्रायतनमलब्ध्वा प्राणमेवाश्रयते’ (छा. उ. ६ । ८ । २) इति ; प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् ; आयतनं च सप्तम्यर्थः, सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते — ‘सति सम्पद्य न विदुः सति सम्पद्यामहे’ (छा. उ. ६ । ९ । २) इति । सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते । तस्मादेकार्थत्वात् नाड्यादीनां विकल्पेन कदाचित् किञ्चित्स्थानं स्वापायोपसर्पति — इति ॥

एवं प्राप्ते, प्रतिपाद्यते — तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः ; नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति, न विकल्पेन — इत्यर्थः । कुतः ? तच्छ्रुतेः ; तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते ; तच्च समुच्चये सङ्गृहीतं भवति ; विकल्पे ह्येषाम् , पक्षे बाधः स्यात् । ननु एकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत् — इत्युक्तम् ; नेत्युच्यते — न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति, नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् — प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु , तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः ; तथा च श्रुतिः — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. उ. ४ । १९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एकवाक्योपादानात् ; प्राणस्य च ब्रह्मत्वं समधिगतं — ‘प्राणस्तथानुगमात्’ (ब्र. सू. १ । १ । २८) इत्यत्र । यत्रापि निरपेक्षा इव नाडीः सुषुप्तिस्थानत्वेन श्रावयति — ‘आसु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते ; न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीभिरपि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति — यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति । अपि च अत्र रश्मिनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसङ्कीर्तनम् — ‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इत्युक्त्वा ‘तं न कश्चन पाप्मा स्पृशति’ (छा. उ. ८ । ६ । ३) इति ब्रुवन् नाडीः प्रशंसति ; ब्रवीति च पाप्मस्पर्शाभावे हेतुम् ‘तेजसा हि तदा सम्पन्नो भवति’ (छा. उ. ८ । ६ । ३) इति — तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः ; अथवा तेजसेति ब्रह्मण एवायं निर्देशः, श्रुत्यन्तरे ; ‘ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् ; ब्रह्मणा हि तदा सम्पन्नो भवति नाडीद्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः — ब्रह्मसम्पत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः ‘सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’ (छा. उ. ८ । ४ । १) इत्यादिश्रुतिभ्यः ; एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं ज्ञायते — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते — ‘पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति ; पुरीतदिति हृदयपरिवेष्टनमुच्यते ; तदन्तर्वर्तिन्यपि हृदयाकाशे शयानः शक्यते ‘पुरीतति शेते’ इति वक्तुम् — प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते ; हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् ‘दहर उत्तरेभ्यः’ (ब्र. सू. १ । ३ । १४) इत्यत्र । तथा नाडीपुरीतत्समुच्चयोऽपि ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९) इत्येकवाक्योपादानात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि सङ्कीर्तितानि — नाड्यः पुरीतत् ब्रह्म चेति ; तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् । अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति — तत्रास्य करणानि वर्तन्त इति ; न हि उपाधिसम्बन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्सम्भवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते । कथं तर्हि ? तादात्म्याभिप्रायेण ; यत आह — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति — स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः । अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्पत्तिर्नास्ति, स्वरूपस्यानपायित्वात् ; स्वप्नजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्विवक्ष्यते — ‘स्वमपीतो भवति’ इति ; अतश्च सुषुप्तावस्थायां कदाचित्सता सम्पद्यते, कदाचिन्न सम्पद्यते — इत्ययुक्तम् । अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते ; तत्र सति सम्पन्नस्तावत् एकत्वात् न विजानातीति युक्तम् , ‘तत्केन कं विजानीयात्’ (छा. उ. २ । ४ । १४) इति श्रुतेः ; नाडीषु पुरीतति च शयानस्य न किञ्चित् अविज्ञाने कारणं शक्यं विज्ञातुम् , भेदविषयत्वात् , ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ३ । ३१) इति श्रुतेः । ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् ; बाढमेवं स्यात् , यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत — यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति ; न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते ; उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् । न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः ; न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति ; न ह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते ; नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् — इत्येतत्प्रतिपादयामः ; तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥

०८ अतः प्रबोधोऽस्मात् ॥

यस्माच्च आत्मैव सुप्तिस्थानम् , अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, ‘कुत एतदागात्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ (बृ. उ. २ । १ । २०) इत्यादिना, ‘सत आगम्य न विदुः सत आगच्छामहे’ (छा. उ. ६ । १० । २) इति च । विकल्प्यमानेषु तु सुषुप्तिस्थानेषु , कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मनः — इत्यशासिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ ८ ॥