०१ सन्ध्ये सृष्टिराह हि ॥
सन्ध्ये तथ्यरूपा सृष्टिरिति ; सन्ध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् — ‘सन्ध्यं तृतीयँ स्वप्नस्थानम्’ इति ; द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् ; तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति — कुतः ? — यतः प्रमाणभूता श्रुतिरेवमाह — ‘अथ रथारथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०) इत्यादि ; ‘स हि कर्ता’ इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥
०२ निर्मातारं चैके पुत्रादयश्च ॥
अपि च एके शाखिनः अस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति — ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ (क. उ. २ । २ । ८) इति ; पुत्रादयश्च तत्र कामा अभिप्रेयन्ते — काम्यन्त इति । ननु कामशब्देनेच्छाविशेषा एवोच्येरन् ; न, ‘शतायुषः पुत्रपौत्रान्वृणीष्व’ (क. उ. १ । १ । २३) इति प्रकृत्य अन्ते ‘कामानां त्वा कामभाजं करोमि’ (क. उ. १ । १ । २४) इति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इत्यादि ; तद्विषय एव च वाक्यशेषोऽपि — ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । २ । ८) इति । प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया, तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ; तथा च श्रुतिः — ‘अथो खल्वाहुर्जागरितदेश एवास्यैष इति यान्येव जाग्रत्पश्यति तानि सुप्तः’ (बृ. उ. ४ । ३ । १४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति । तस्मात्तथ्यरूपैव सन्ध्ये सृष्टिरिति ॥ २ ॥
एवं प्राप्ते, प्रत्याह —
०३ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तम् , सन्ध्ये सृष्टिः पारमार्थिकीति ; मायैव सन्ध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति । कुतः ? कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् — न हि कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ? देशकालनिमित्तसम्पत्तिः अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति ; न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् । स्यादेतत् — बहिर्देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात् ; दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् — ‘बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२) इति ; स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत — इति । नेत्युच्यते — न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते ; क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति — कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च — इति ; देहाच्चेदपेयात् , पञ्चालेष्वेव प्रतिबुध्येत , तानसावभिगत इति ; कुरुष्वेव तु प्रतिबुध्यते । येन च अयं देहेन देशान्तरमश्नुवानो मन्यते, तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति ; परिधावंश्चेत्पश्येत् , जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘स यत्रैतत्स्वप्न्यया चरति’ इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८) इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृतश्चरित्वेति — यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥
कालविसंवादोऽपि च स्वप्ने भवति — रजन्यां सुप्तो वासरं भारते वर्षे मन्यते ; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते ; करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ; रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे ; स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् — ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ (बृ. उ. ४ । ३ । १०) इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥
०४ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति — नेत्युच्यते — सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः ; तथा हि श्रूयते — ‘यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इति ; तथा ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ; आचक्षते च स्वप्नाध्यायविदः — कुञ्जरारोहणादीनि स्वप्ने धन्यानि, खरयानादीन्यधन्यानि’ इति ; मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् ; सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् , बाध्यमानत्वादित्यभिप्रायः ; तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥
यदुक्तम् — ‘आह हि’ इति तदेवं सति भाक्तं व्याख्यातव्यम् — यथा ‘लाङ्गलं गवादीनुद्वहति’ इति निमित्तमात्रत्वादेवमुच्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ; एवं निमित्तमात्रत्वात् — सुप्तो रथादीन्सृजते, ‘स हि कर्ता’ — इति च उच्यते ; न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति । निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् । अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः ; तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् ; तस्माद्रथाद्यभाववचनं श्रुत्या, रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् । एतेन निर्माणश्रवणं व्याख्यातम् । यदप्युक्तम् — ‘प्राज्ञमेनं निर्मातारमामनन्ति’ इति, तदप्यसत् , श्रुत्यन्तरे ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इति जीवव्यापारश्रवणात् ; इहापि ‘य एष सुप्तेषु जागर्ति’ (क. उ. २ । २ । ८) इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते ; तस्य तु वाक्यशेषेण ‘तदेव शुक्रं तद्ब्रह्म’ इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते — ‘तत्त्वमसि’ (छा. उ. ६ । ९ । ४) इत्यादिवत् — इति न ब्रह्मप्रकरणं विरुध्यते । न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः ; पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् — इत्येतावत्प्रतिपाद्यते ; न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ; प्रतिपादितं हि ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ; सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥
०५ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥
अथापि स्यात् — परस्यैव तावदात्मनोंऽशः जीवः — अग्नेरिव विस्फुलिङ्गः ; तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती ; ततश्च जीवस्य ज्ञानैश्वर्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति । अत्रोच्यते — सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ? न नास्त्येव ; विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् । तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य — तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् — ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव, सर्वेषां जन्तूनाम् । कुतः ? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य, बन्धमोक्षौ भवतः — ईश्वरस्वरूपापरिज्ञानात् बन्धः, तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः — ‘ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः’ (श्वे. उ. १ । ११) इत्येवमाद्या ॥ ५ ॥
०६ देहयोगाद्वा सोऽपि ॥
कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् , विस्फुलिङ्गस्येव दहनप्रकाशनयोः — इति । उच्यते — सत्यमेवैतत् ; सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः, देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति । अस्ति च अत्रोपमा — यथा अग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य — एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः । वाशब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः । नन्वन्य एव जीवः ईश्वरादस्तु, तिरस्कृतज्ञानैश्वर्यत्वात् ; किं देहयोगकल्पनया ? नेत्युच्यते — न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते — ‘सेयं देवतैक्षत’ (छा. उ. ६ । ३ । २) इत्युपक्रम्य ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इत्यात्मशब्देन जीवस्य परामर्शात् ; ‘तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति च जीवाय उपदिशति ईश्वरात्मत्वम् ; अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति । अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ; यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् , नैवानिष्टं कश्चित्स्वप्नं पश्येत् , न हि कश्चिदनिष्टं सङ्कल्पयते । यत्पुनरुक्तम् — जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्यत्वाभिप्रायम् , स्वयंज्योतिष्ट्वविरोधात् , श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ; जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥